Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan
View full book text
________________
२९०
श्रीउत्तराध्ययनदीपिकाटीका-१ व्याख्या-एवममुना दृष्टान्तेन लोके जरया मरणेन च प्रदीप्ते सति अहं सारभाण्डतुल्यमात्मानं तारयिष्यामि, कीदृशोऽहं ? युष्माभिरनुमतो भवद्भिर्दत्ताज्ञः, तस्मान्मह्यं प्रवज्याकृते आज्ञा देयेत्यर्थः ॥२४॥
तं बिंतऽम्मापियरो, सामन्नं पुत्त दुच्चरं ।।
गुणाणं तु सहस्साई, धारेयव्वाइं भिक्खुणो ॥२५॥ व्याख्या-अथ मातापितरौ तं मृगापुत्रं प्रति ब्रूतः, हे पुत्र ! श्रामण्यं दुश्चरमस्ति, तु पुनर्गुणानां श्रामण्योपकारकाणां शीलाङ्गरूपाणां सहस्राणि भिक्षोर्धारितव्यानि सन्तीति ।।२५।।
समया सव्वभूएसु, सत्तुमित्तेसु वा जगे ।
पाणाइवायविरई, जावज्जीवाय दुक्करं ॥२६॥ व्याख्या-पुन: पुत्र ! सर्वभूतेषु समता रागद्वेषाऽविधानतस्तुल्यता कर्त्तव्या, अथवा 'जगे' इति जगति शत्रुमित्रेषु समता कर्त्तव्या, पुनर्यावज्जीवं प्राणातिपातविरतिस्तु दुष्करास्ति, अनेन सामायिकमुक्तम् ॥२६॥
निच्चकालप्पमत्तेणं, मुसावायविवज्जणं ।
भासियव्वं हियं सच्चं, निच्चाउत्तेण दुक्करं ॥२७॥ व्याख्या-पुनर्नित्यकालं सर्वदाऽप्रमादित्वेन मृषावादस्य विवर्जनं कर्त्तव्यम् , पुनर्हितं हितकारकं सत्यं वक्तव्यं, पुनर्नित्यायुक्तेन सदोपयुक्तेन स्थातव्यं, तदपि दुष्करमस्ति । नित्यकालमप्रमत्तेन च नित्यायुक्तेनेति यच्चान्वयव्यतिरेकाभ्यामेकस्यैवार्थस्याभिधानं तत्स्पष्टनार्थमदुष्टमेव ॥२७॥
दंतसोहणमाइस्स, अदत्तस्स विवज्जणं ।
अणवज्जेसणिज्जस्स, गिण्हणा अविदुक्करं ॥२८॥ व्याख्या-पुनर्हे पुत्र ! मुनिधर्मे दन्तशोधनप्रमुखस्यापि, मकारोऽलाक्षणिकः, अदत्तवस्तुनो विवर्जनम् , शलाकामात्रमप्यदत्तं वस्तु नैव गृहीतव्यं, तथैव अनवद्यं च तदेषणीयं च अनवद्यैषणीयं, एवंविधस्य पिण्डादेर्ग्रहणमपि दुष्करम् ।।२८।।
विरई अबंभचेरस्स, कामभोगरसन्नुणा । उग्गं महव्वयं बंभं, धारेयव्वं सुदुक्करं ॥२९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350