Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan
View full book text
________________
२९४
श्रीउत्तराध्ययनदीपिकाटीका-१ __ व्याख्या-यथा रत्नाकरः समुद्रो भुजाभ्यां तरितुं दुष्करस्तथाऽनुपशान्तेनोत्कटकषायोदयिना मनुष्येण दमसागरस्तरितुं दुष्करः इह केवलमुपशमस्य समुद्रोपमोक्ता, पूर्वत्र तु गुणोदधिरित्यनेन निःशेषगुणानामिति नैवात्र पौनरुक्त्यं भावनीयमिति ॥४३॥ यतश्चैवं तारुण्ये दुष्करा प्रव्रज्या, अतो भोगान् भुझ्वेत्यादिना कृत्योपदेशं पितरौ ब्रूत:
भुंज माणुस्सए भोए, पंचलक्खणए तुमं ।
भुत्तभोगी तओ जाया, पच्छा धम्मं चरिस्ससि ॥४४॥ व्याख्या-हे जात ! हे पुत्र ! मानुष्यकान् मनुष्यसम्बन्धिनः पञ्चलक्षणान् शब्दादिपञ्चलक्षणसंयुतान् भोगान् त्वं भुक्ष्व ? ततः पश्चाद्भुक्तभोगीभूय धर्मं श्रामण्यं चरिष्यस्यङ्गीकरिष्यसि । इदानीं तव भोगानुभवनसमयोऽस्तीति भावः ॥४४|| मृगापुत्र आह
सो वि तम्हा पियरो, एवमेयं जहा फुडं। इह लोए निप्पिवासस्स, णत्थि किंचि वि दुक्करं ॥४५॥ व्याख्या-ततः स ब्रूते हे पितरौ ! एवमिति यथा भवद्भयामुक्तं तत्तथैव प्रव्रज्यादुष्करत्वं स्फुटं प्रकटमेवास्ति । तथापीह लोके निष्पिपासस्य निःस्पृहपुरुषस्य किञ्चिदतिकष्टमपि शुभानुष्ठानं न दुष्करं, अपि सम्भावने ॥४५॥
सारीरमाणसा चेव, वेयणाओ अणंतसो ।
मए सोढाओ भीमाओ, असई दुक्खभयाणि य ॥४६॥ व्याख्या हे पितरौ ! मया शारीरा मानस्यश्च भीमा भयङ्करा वेदना अनन्तशोऽनन्तवारान् सोढा अनुभूताः, चैव पूर्ती, पुनरसकृद्वारंवारं दुःखानि भयानि च राजविड्वरादीनि सोढानि ॥४६॥
जरामरणकंतारे, चाउरते भयागरे ।
मए सोढाणि भीमाई, जम्माणि मरणाणि य ॥४७॥ व्याख्या-पुनश्चातुरन्ते संसारे भीमानि भयदानि जन्मानि च पुनर्मरणानि मया सोढानि, देवादिरूपा चतुर्भवा अन्ता अवयवा यस्य स चतुरन्तः, स एव चातुरन्तस्तस्मिन्। कीदृशे चातुरन्ते ? जरामरणकान्तारे जरामरणाभ्यामतिगहनतया कान्तारं वनरूपं तस्मिन् ॥४७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350