Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 332
________________ २८९ एकोनविंशं मृगापुत्रीयाध्ययनम् इत्थं निर्वेदहेतुमुक्त्वा दृष्टान्तोपन्यासतः स्वाशयं प्रकटयति अद्धाणं जो महंतं तु, अपाहेज्जो पवज्जइ । गच्छंतो से दुही होइ, छुहातण्हाइपीडिओ ॥१९॥ व्याख्या-यः पुरुषो महान्तमध्वानं दीर्घ मार्गमपाथेयः सम्बलरहितः सन् प्रव्रजति, स पुमान् गच्छन् क्षुधा तृष्णया पीडितः सन् दुःखी भवति ॥१९॥ एवं धम्मं अकाऊणं, जो गच्छइ परं भवं । गच्छंतो से दुही होइ, वाहीरोगेहिं पीडिओ ॥२०॥ व्याख्या-एवममुना प्रकारेण असम्बलपुरुषदृष्टान्तेन यः पुरुषो धर्ममकृत्वा परभवं गच्छति स गच्छन् दुःखी भवति, कीदृशः सः ? व्याधिरोगैः पीडितः ॥२०॥ अद्धाणं जो महंतं तु, सपाहेज्जो पवज्जड़ । गच्छंतो से सुही होइ, छुहातहाविवज्जिओ ॥२१॥ व्याख्या-यः पुरुषो महान्तमध्वानं दीर्घ मार्ग प्रति सपाथेयः सम्बलसहितः सन् प्रव्रजति, स पुरुषः क्षुधातृष्णाभ्यां विवर्जितः सन् मार्गं गच्छन् सुखी भवति ॥२१॥ एवं धम्मं पि काऊणं, जो गच्छड् परं भवं । गच्छंतो से सुही होइ, अप्पकम्मे अवेयणे ॥२२॥ व्याख्या-एवममुना प्रकारेण अनेन सम्बलसहितनरदृष्टान्तेन यो मनुष्यो धर्मं कृत्वा परं भवं परं लोकं गच्छति स धर्माराधकः पुरुषः सुखी भवति, कीदृशः सः ? अल्पकर्मा लघुकर्मा, पुनरवेदनोऽल्पवेदनो वेदनारहितो वा अल्पपापकर्मा अल्पाऽसातावेदन इत्यर्थः ॥२२॥ जहा गेहे पलित्तंमि, तस्स गेहस्स जो पहू । सारभंडाणि नीणेइ, असारं उज्झइ ॥२३॥ व्याख्या यथा गृहेऽग्निना प्रदीप्ते प्रज्वलिते सति तस्य गृहस्य यः स्वामी स सारभाण्डानि सारपदार्थानाजीविकाहेतून् गृहाबहिर्निष्कासयति, असारं च भाण्डं त्यजतीति ॥२३॥ एवं लोए पलित्तंमि, जराए मरणेण य । अप्पाणं तारयिस्सामि, तुब्भेहिं अणुमन्निओ ॥२४॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350