________________
२८९
एकोनविंशं मृगापुत्रीयाध्ययनम् इत्थं निर्वेदहेतुमुक्त्वा दृष्टान्तोपन्यासतः स्वाशयं प्रकटयति
अद्धाणं जो महंतं तु, अपाहेज्जो पवज्जइ ।
गच्छंतो से दुही होइ, छुहातण्हाइपीडिओ ॥१९॥ व्याख्या-यः पुरुषो महान्तमध्वानं दीर्घ मार्गमपाथेयः सम्बलरहितः सन् प्रव्रजति, स पुमान् गच्छन् क्षुधा तृष्णया पीडितः सन् दुःखी भवति ॥१९॥
एवं धम्मं अकाऊणं, जो गच्छइ परं भवं ।
गच्छंतो से दुही होइ, वाहीरोगेहिं पीडिओ ॥२०॥ व्याख्या-एवममुना प्रकारेण असम्बलपुरुषदृष्टान्तेन यः पुरुषो धर्ममकृत्वा परभवं गच्छति स गच्छन् दुःखी भवति, कीदृशः सः ? व्याधिरोगैः पीडितः ॥२०॥
अद्धाणं जो महंतं तु, सपाहेज्जो पवज्जड़ ।
गच्छंतो से सुही होइ, छुहातहाविवज्जिओ ॥२१॥ व्याख्या-यः पुरुषो महान्तमध्वानं दीर्घ मार्ग प्रति सपाथेयः सम्बलसहितः सन् प्रव्रजति, स पुरुषः क्षुधातृष्णाभ्यां विवर्जितः सन् मार्गं गच्छन् सुखी भवति ॥२१॥
एवं धम्मं पि काऊणं, जो गच्छड् परं भवं ।
गच्छंतो से सुही होइ, अप्पकम्मे अवेयणे ॥२२॥ व्याख्या-एवममुना प्रकारेण अनेन सम्बलसहितनरदृष्टान्तेन यो मनुष्यो धर्मं कृत्वा परं भवं परं लोकं गच्छति स धर्माराधकः पुरुषः सुखी भवति, कीदृशः सः ? अल्पकर्मा लघुकर्मा, पुनरवेदनोऽल्पवेदनो वेदनारहितो वा अल्पपापकर्मा अल्पाऽसातावेदन इत्यर्थः ॥२२॥
जहा गेहे पलित्तंमि, तस्स गेहस्स जो पहू ।
सारभंडाणि नीणेइ, असारं उज्झइ ॥२३॥ व्याख्या यथा गृहेऽग्निना प्रदीप्ते प्रज्वलिते सति तस्य गृहस्य यः स्वामी स सारभाण्डानि सारपदार्थानाजीविकाहेतून् गृहाबहिर्निष्कासयति, असारं च भाण्डं त्यजतीति ॥२३॥
एवं लोए पलित्तंमि, जराए मरणेण य । अप्पाणं तारयिस्सामि, तुब्भेहिं अणुमन्निओ ॥२४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org