Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 326
________________ अष्टादशं संयतीयाध्ययनम् २८३ तहेव उग्गं तवं किच्चा, अव्वखित्तेण चेयसा । महाब्बलो रायरिसी, आदाय सिरसा सिरिं ॥५१॥ व्याख्या-तथैवोग्रतपः कृत्वाऽव्याक्षिप्तेन चेतसा महाबलो राजर्षिरादाय शिरसेव शिरसा शिरःप्रदानेनैव जीवितनिरपेक्षमित्यर्थः, श्रियं संयमश्रियम् , तृतीयभवे च सिद्धः ॥ यथा गजपुरे बलराजप्रभावत्योः सिंहस्वप्नान्महाबलः सुतोऽभूत् , अत्र स्वप्नपाठकजन्मादिमहाश्चक्रिवज्जाताः, स तारुण्ये सुरूपा अष्टौ राट्कन्याः पितृभ्यां विवाहितः, अष्टभौमं च भवनं तस्मै दत्तम् । कन्यापितृभिरष्टौ हिरण्यकोट्योऽष्टौ स्वर्णकोट्यो मुकुटकुण्डलहारार्द्धहारकटकादयोऽप्यष्टावष्टौ, दशसहस्रात्मकान्यष्टौ गोकुलानि, हस्तिवाजिरथयानद्वात्रिंशद्बद्धनाटकान्यप्यष्टौ, दशकुलसहस्रात्मका अष्टौ ग्रामाः, कर्मकरदासदासीस्थालकच्चोलकादीनि सर्ववस्तून्यष्टावष्टौ दत्तानि । एवं स देवोपमान् भोगान् भुनक्ति । एकदा तत्र धर्मघोषमुनिमेतं श्रुत्वा महाबलो नन्तुं गतः, धर्मं श्रुत्वा संवेगात् पित्रोः प्रव्रज्यानुमति ययाचे । तत् श्रुत्वा तौ मूच्छितौ भूमौ पतितौ, शीतोपचारैश्च सचेतनीभूतौ । महाग्रहाच्च तौ तस्मै कतिचित् प्रश्नोत्तरानन्ततरं प्रव्रज्यानुमतिं ददतुः, ततोऽसौ धर्मघोषगुर्वन्तिके प्रव्रज्य षष्ठाष्टमादिभिर्द्वादशवर्षाणि श्रामण्यं प्रपाल्य मासिक्या संलेखनया ब्रह्मलोके दशसागरायुःसुरोऽभूत् , ततो वाणिज्यग्रामे श्रेष्ठिकुले सुदर्शनाभिधो जातः, श्रीवीरपार्श्वे च प्रव्रज्य सिद्धः ॥५१॥ इति सप्तदशसूत्रार्थः ॥ इत्थं महापुरुषदृष्टान्तैर्ज्ञानपूर्वं क्रियाफलमुक्त्वोपदिशति कहिं धीरो अहेऊहिं, उम्मत्तो व्व महिं चरे । एए विसेसमायाय, सूरा दड्डपरक्कमा ॥५२॥ व्याख्या-कथं धीरोऽहेतुभिः क्रियावाद्यादिकुहेतुभिरुन्मत्त इति भूतात्त इव तात्विकवस्त्वपलपेनालजालभाषितया महीं चरेत् ? नैव चरेदित्यर्थः, एते भरताद्या विशेष विशिष्टतां मिथ्यामतेभ्यो जिनमतस्यादाय मनसि निश्चित्य शूरा दृढपराक्रमा एतदाश्रिताः, अतस्त्वयापि धीरेण सताऽत्रैव चेतः स्थिरीकर्त्तव्यम् ।।५२।। अच्चंतणियाणखम्मा, सच्चा मे भासिया वई । अतरिंसु तरंतेगे, तरिस्संति अणागया ॥५३॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350