Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan
View full book text
________________
२८१
अष्टादशं संयतीयाध्ययनम् तस्य ललाटेऽयं मम दासीपतिरित्यक्षराणि लिखितानि । ततस्तं काष्ठपञ्जरे निक्षिप्योदायनो निजनगरं प्रति चलितः, मार्गे वर्षाकालः समायातः, ततस्तेन निजसैन्यं तत्रैव स्थापितम् । उदायनः सर्वदा चण्डप्रद्योतं भोजनसमये स्वपार्वे समानीय स्वतुल्यमेव भोजनं भोजयति । इतस्तत्र पर्युषणापर्व समागतं, तदोदायनेनोपवासः कृतः, सूपकारैश्चण्डप्रद्योतः पृथग्भोजनार्थं पृष्टो ध्यायति नूनमद्य मां भोजनान्तविषदानेनासौ मारयिष्यतीति विचार्य तेन तेभ्यः पृष्टं किमद्याहं पृथग्भोजनाय पृष्टः? तैरुक्तमद्य पर्युषणापर्वास्ति, तेनोदायननृपेणोपवासः कृतोऽस्ति । तत् श्रुत्वा चण्डप्रद्योतेनोक्तं ममाप्यद्योपवासोऽस्ति, प्रथमं न ज्ञातं मयाद्य पर्युषणादिनम् । सूपकारैः स उदन्त उदायनाय निवेदितः, तदोदायनेन चिन्तितं, जानामि यदयं धूर्तसाधर्मिकीभूतोऽस्ति, तथाप्यस्मिन् बद्धे मम पर्युषणा न शुद्धयति, इति ध्यात्वा तेन चण्डप्रद्योतो बन्धनमुक्तः कृतः, क्षामितश्च तद्भाललिखिताक्षरावलिच्छादनार्थं च तस्य मूजि रत्नपट्टो बद्धः, प्रेषितश्च सन्मानपुरस्सरं स तस्य देशे । उदायननृपोऽपि निजनगरे समायातः, अथैकदा स पौषधशालायां पौषधं प्रतिपालयन् रात्रौ चिन्तयति धन्यानि तानि नामाकरनगराणि यत्र श्रमणो भगवान् श्रीमहावीरो विहरति, धन्याश्च ते राजगृहेश्वरप्रभृतयो नृपा ये श्रमणस्य भगवतः श्रीमहावीरस्यान्तिके केवलिप्रज्ञप्तं धर्मं शृण्वन्ति, पञ्चाणुव्रतिकं सप्तशिक्षाव्रतकं द्वादशविधं श्रावकधर्मं च प्रतिपद्यन्ते, तथैवाऽनगारितां च प्राप्नुवन्ति ।
ततः श्रमणो भगवान् श्रीमहावीरश्चेदत्र समागच्छेत्तदाहमपि भगवदन्तिके प्रव्रजामि । अथोदायनस्यायमध्यवसायो भगवता ज्ञातस्तदा स प्रातश्चम्पातो विहृत्य वीतभयपत्तनस्य मृगवनोद्याने समवसृतः, तत्र पर्षन्मिलिता, उदायनोऽपि तत्र समायातः, भगवदन्तिके धर्म श्रुत्वा हृष्टश्चैवमवादीत् , स्वामिन् भवदन्तिकेऽहं प्रव्रजिष्यामि, परं राज्यं कस्मैचिद्दत्वागमिष्यामीत्युक्त्वा भगवन्तं वन्दित्वा स स्वगृहाभिमुखं चलितः, भगवतापि प्रतिबन्धं मा कार्षीरित्युक्तम् । अथ पथि तेन चिन्तितं यदि मम पुत्रायाभिचिकुमाराय राज्यं दास्यामि तदासौ कामभोगेषु मूर्छितोऽनन्तसंसारकान्तारं भ्रमिष्यति, ततः श्रेयः खलु मम भागिनेयकेशिकुमाराय राज्यार्पणम् । ततो द्रुतं गृहे समागत्य मन्त्र्यादीनाहूय तेन केशिकुमारस्य राज्याभिषेकः कृतः, ततस्तत्कृतनिष्क्रमणमहोत्सव उदायननृपो भगवन्दतिके दीक्षां जग्राह। बहूनि षष्ठाष्टमदशमद्वादशममासार्द्धमासक्षपणादीनि तपःकर्माणि कुर्वाणः स विहरति । अथान्यदा तस्योदायनराज!रन्तप्रान्ताद्याहारेण शरीरे महान् व्याधिरुत्प्नः, वैद्यैरुक्तं दध्यौषधं कुरु ! अथ स भगवदाज्ञयैकाकी विहरति । अन्यदा स विहरन् वीतभयपत्तने गतः, तत्र तस्य भागिनेयः केशिकुमारराजा मन्त्र्यादिभिरिति भणितः, स्वामिन्नेष उदायनराजर्षिः परीषहादिपराभूतः प्रव्रज्यां मोक्तुकाम एकाक्येवेहायातस्तव राज्यं मार्गयष्यति, स
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350