Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 323
________________ २८० __ श्रीउत्तराध्ययनदीपिकाटीका-१ धम्मो चेवेत्थ सत्ताणं, सरणं भवसायरे। देवं धम्मं गुरुं चेव, धम्मत्थी य परिक्खए ॥१॥[] दसअट्ठदोसरहिओ देवो, धम्मो वि निउणदयसहिओ । सुगुरु य बंभयारी, आरंभपरिग्गहा विरओ ॥२॥ [सं स./गा.३] इत्यादिकोपदेशेन स राजा प्रतिबोधं प्राप्तः, प्रतिपन्नश्च तेन जिनधर्मः, अथ प्रभावतीदेवः प्रकटीभूय राजानं च स्थिरीकृत्य स्वस्थाने गतः, एवं स उदायनराजा श्रावको जातः । इतश्चैको गन्धारदेशवास्तव्यः सत्यनामा श्रावकः सर्वत्र जिनजन्मभूम्यादितीर्थानि वन्दमानो वैताढ्यं यावद् गतः, तत्र च शाश्वतप्रतिमावन्दनार्थं स उपवासत्रयं कृतवान् । तत्तपस्तुष्टया तदधिष्ठातृदेव्या तस्मै शाश्वतजिनप्रतिमा दर्शिताः, तेनापि ता वन्दिताः, अथ तया देव्या तस्मै श्रावकाय कामितदा गुटिका दत्ताः, ततः स निवृत्तो वीतभयपत्तने जीवन्तस्वामिप्रतिमां वन्दितुमायातः, गोशीर्षचन्दनमयीं तां प्रतिमां सोऽवन्दत । दैवात्तत्र तस्याऽतिसाररोग उत्पन्नः, कुब्जया दास्या च तस्य परिचर्या कृता, जातश्च स नीरुक् । ततस्तुष्टेन तेन तस्यै ताः कामगुटिका दत्ताः, कथितश्च तासां चिन्तितार्थसाधकः प्रभावः, अथान्यदा सा दासी अहं सुवर्णवर्णदेहा भवामीति विचिन्त्यैकां गुटिकां भक्षयामास । तत्क्षणमेव सा सुवर्णवर्णदेहा जाता, ततश्च तस्य सुवर्णगुलिकेति नाम जातम् , अन्यदा सा चिन्तयति यद्भोगसुखमनुभवामि, एष उदायनराजा तु मम पितृतुल्य इति सा चण्डप्रद्योतमेव मनसि कृत्वा गुटिकामेकां भक्षयामास । तदैव स्वप्नमध्ये देवकथनतोऽसौ चण्डप्रद्योतः सुवर्णगुलिकानयनार्थं दूतं प्रेषितवान् । दूतेनागत्य तस्यै चण्डप्रद्योताभिलाषः कथितः, तयोक्तं प्रथममत्र चण्डप्रद्योतः समायातु तं सम्यग् निरीक्ष्याहं तेन सहागमिष्यामि । अथ दूतकथनतश्चण्डप्रद्योतोऽनिलवेगगजमारुह्य रात्रौ सुवर्णगुलिकासमीपे समायातः, तयोक्तमस्या जिनप्रतिमायाः सदृशीमेकां प्रतिमां त्वमत्रानय? यथा तां प्रतिमामिहैव स्थापयित्वेमां च मूलप्रतिमामादाय त्वया सहागच्छामि । चण्डप्रद्योतः पश्चाद्वलित्वा निजनगरे समागत्य चपलमेव तादृशीं प्रतिमां कारयित्वा तामादाय पुनः सुवर्णगुलिकासमीपे समायातः, तदा सा दास्यपि मूलजिनप्रतिमास्थाने तां नवीनप्रतिमा स्थापयित्वा जीर्णां च समादाय चण्डप्रद्योतेन सहोज्जयिन्यां प्राप्ता । प्रभाते तं वृत्तान्तं विज्ञायोदायनेन चण्डप्रद्योतं प्रति दूतं प्रेषयित्वा प्रतिमा मागिता । परं चण्डप्रद्योतेन नार्पिता । तदा क्रुद्धो उदायनो निजसैन्यं मेलयित्वोज्जयिनी प्रति चलितः, तत्र च द्वयोः सैन्ययोयुद्धं जातं, उदायनेन चण्डप्रद्योतं विजित्य बद्ध्वा च Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350