Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 320
________________ अष्टादशं संयतीयाध्ययनम् २७७ ततस्ताभ्यां तस्मै निजयौवनादिगुणोपेतमनोहरं रूपं दर्शितम् । तदा कुमारनन्द्यवक् के भवन्त्यौ ? कुतश्च समायाते ? ते आहतुरावां हासाप्रहासाख्यदेव्यौ स्वः, तद्रूपमोहितः कुमारनन्दी स्वर्णकारस्ते देव्यौ भोगार्थं प्राथितवान् । ताभ्यां भणितं यद्यस्मद्भोगकार्यं तदा त्वं पञ्चशैलद्वीपे समागच्छे:, इत्युक्त्वा ते देव्यौ गगनाध्वन्युत्पत्य गते स्वस्थानम् । अथ तेन सुवर्णकारेण धनदानपूर्वकं राज्ञ आज्ञामादाय नगरे पटहोद्घोषणा कारिता, यत्कुमारनन्दिस्वर्णकारं यः पञ्चशैलद्वीपं नयति तस्मै स धनकोटि ददाति, तदैकेन स्थविरनाविकेन स पटहः स्पृष्टः, कुमारनन्दिनामपि तस्मै कोटिधनं दत्तं, स स्थविरोऽपि तद्धनं पुत्रेभ्यो दत्वा कुमारनन्दिना सह यानपात्रमारूढ: समुद्रमध्ये प्रविष्टः, यावद्दूरे गतस्तावदेकं वटवृक्षं स दृष्टवान् । अथ स्थविर उवाच तस्य वटस्याध इदं प्रहवणं गमिष्यति, तत्र च जलावर्तोऽस्ति, अतः प्रवहणमिदं भक्ष्यति, त्वं त्वेतद्वटवृक्षशाखामश्रयः, वटेऽत्र पञ्चशैलद्वीपाद्भारण्डपक्षिणः सन्ध्यायां समायास्यन्ति, तच्चरणेषु स्वं वपुस्त्वं वस्त्रेण दृढं बध्नीयाः, ते च प्रभाते इत उड्डीनाः पञ्चशैलं यास्यन्ति, एवं त्वमपि तैः समं पञ्चशैले गच्छेः, स्थविरो यावदेवं कथयति तावत् प्रवहणं तवटाधो गतम् , कुमारनन्दिना तद्वटशाखालम्बनं विहितम्, प्रवहणं च भग्नम्, कुमारनन्दी च भारण्डपक्षिचरणावलम्बन पञ्चशैले गतः, तत्र च ताभ्यां हासाप्रहासाभ्यां स दृष्टः, उक्तं च ताभ्यां तवैतेन शरीरेण नाडावाभ्यां सह भोगो विधीयते । अतः स्वनगरे गत्वा त्वमङ्गष्ठत आरभ्य मस्तकं यावज्ज्वालनेन स्वशरीरं दाहय ! यथा पञ्चशैलाधीशो भूत्वा त्वमस्मद्भोगेहां पूर्णीकुरु ! तेनोक्तं तत्राहमथ कथं यामि ? तदा ताभ्यां स करतले समुत्पाट्य तन्नगरोद्याने मुक्तः, तत्र लोकस्तं पृच्छति, किं त्वया तत्राश्चर्यं दृष्टम् ? स भणति दृष्टः श्रुतोऽनुभूतः पञ्चशैलो द्वीपो मया, यत्र हासाप्रहासाभिधे देव्यौ स्तः, अथात्र कुमारनन्दिना स्वाङ्गुष्ठेऽग्नि मोचयित्वा मस्तकं यावत् स्वशरीरं ज्वालयितुमारब्धम्, तदा पूर्वोक्तच्छावकमित्रेणासौ वारितो भो मित्र ! तवेदं कापुरुषजनोचितं चेष्टितं न युक्तम् , हे महानुभाव ! दुर्लभं मनुष्यजन्म त्वं मा हारय ! तुच्छमिदं भोगसुखमस्ति । किञ्च यद्यपि त्वं भोगार्थी तथापि सद्धर्मानुष्ठानमेव कुरु ! यत उक्तम् धणओ धणत्थियाणं, कामत्थीणं च सव्वकामकरो । सग्गापवग्गसंगम-हेऊ जिणदेसिओ धम्मो ॥१॥ [ र. स./गा.९३ ] इत्यादिशिक्षावादैमित्रेण वार्यमाणोऽपि स इङ्गिनीमरणेन मृतः पञ्चशैलाधिपतिर्जातः, तन्मित्रस्य तस्य श्रावकस्य तु महान् खेदो जातः, अहो भोगकार्ये जना इत्थं क्लिश्यन्ति, _Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350