________________
अष्टादशं संयतीयाध्ययनम्
२७७ ततस्ताभ्यां तस्मै निजयौवनादिगुणोपेतमनोहरं रूपं दर्शितम् । तदा कुमारनन्द्यवक् के भवन्त्यौ ? कुतश्च समायाते ? ते आहतुरावां हासाप्रहासाख्यदेव्यौ स्वः, तद्रूपमोहितः कुमारनन्दी स्वर्णकारस्ते देव्यौ भोगार्थं प्राथितवान् । ताभ्यां भणितं यद्यस्मद्भोगकार्यं तदा त्वं पञ्चशैलद्वीपे समागच्छे:, इत्युक्त्वा ते देव्यौ गगनाध्वन्युत्पत्य गते स्वस्थानम् । अथ तेन सुवर्णकारेण धनदानपूर्वकं राज्ञ आज्ञामादाय नगरे पटहोद्घोषणा कारिता, यत्कुमारनन्दिस्वर्णकारं यः पञ्चशैलद्वीपं नयति तस्मै स धनकोटि ददाति, तदैकेन स्थविरनाविकेन स पटहः स्पृष्टः, कुमारनन्दिनामपि तस्मै कोटिधनं दत्तं, स स्थविरोऽपि तद्धनं पुत्रेभ्यो दत्वा कुमारनन्दिना सह यानपात्रमारूढ: समुद्रमध्ये प्रविष्टः, यावद्दूरे गतस्तावदेकं वटवृक्षं स दृष्टवान् । अथ स्थविर उवाच तस्य वटस्याध इदं प्रहवणं गमिष्यति, तत्र च जलावर्तोऽस्ति, अतः प्रवहणमिदं भक्ष्यति, त्वं त्वेतद्वटवृक्षशाखामश्रयः, वटेऽत्र पञ्चशैलद्वीपाद्भारण्डपक्षिणः सन्ध्यायां समायास्यन्ति, तच्चरणेषु स्वं वपुस्त्वं वस्त्रेण दृढं बध्नीयाः, ते च प्रभाते इत उड्डीनाः पञ्चशैलं यास्यन्ति, एवं त्वमपि तैः समं पञ्चशैले गच्छेः, स्थविरो यावदेवं कथयति तावत् प्रवहणं तवटाधो गतम् , कुमारनन्दिना तद्वटशाखालम्बनं विहितम्, प्रवहणं च भग्नम्, कुमारनन्दी च भारण्डपक्षिचरणावलम्बन पञ्चशैले गतः, तत्र च ताभ्यां हासाप्रहासाभ्यां स दृष्टः, उक्तं च ताभ्यां तवैतेन शरीरेण नाडावाभ्यां सह भोगो विधीयते । अतः स्वनगरे गत्वा त्वमङ्गष्ठत आरभ्य मस्तकं यावज्ज्वालनेन स्वशरीरं दाहय ! यथा पञ्चशैलाधीशो भूत्वा त्वमस्मद्भोगेहां पूर्णीकुरु ! तेनोक्तं तत्राहमथ कथं यामि ? तदा ताभ्यां स करतले समुत्पाट्य तन्नगरोद्याने मुक्तः, तत्र लोकस्तं पृच्छति, किं त्वया तत्राश्चर्यं दृष्टम् ? स भणति दृष्टः श्रुतोऽनुभूतः पञ्चशैलो द्वीपो मया, यत्र हासाप्रहासाभिधे देव्यौ स्तः, अथात्र कुमारनन्दिना स्वाङ्गुष्ठेऽग्नि मोचयित्वा मस्तकं यावत् स्वशरीरं ज्वालयितुमारब्धम्, तदा पूर्वोक्तच्छावकमित्रेणासौ वारितो भो मित्र ! तवेदं कापुरुषजनोचितं चेष्टितं न युक्तम् , हे महानुभाव ! दुर्लभं मनुष्यजन्म त्वं मा हारय ! तुच्छमिदं भोगसुखमस्ति । किञ्च यद्यपि त्वं भोगार्थी तथापि सद्धर्मानुष्ठानमेव कुरु ! यत उक्तम्
धणओ धणत्थियाणं, कामत्थीणं च सव्वकामकरो ।
सग्गापवग्गसंगम-हेऊ जिणदेसिओ धम्मो ॥१॥ [ र. स./गा.९३ ] इत्यादिशिक्षावादैमित्रेण वार्यमाणोऽपि स इङ्गिनीमरणेन मृतः पञ्चशैलाधिपतिर्जातः, तन्मित्रस्य तस्य श्रावकस्य तु महान् खेदो जातः, अहो भोगकार्ये जना इत्थं क्लिश्यन्ति,
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org