________________
श्रीउत्तराध्ययनदीपिकाटीका -१
करोषीत्यहितार्थानेव सर्वे निवारयन्ति, अतो दोषं परापवादाख्यं वक्तुं न युक्तम् । यद्वा अहितार्थं निवारयन्तं प्रति दोषं निन्दाख्यं वक्तुं नार्हसि, यतः
२७६
रूसओ वा परो मा वा, विसं वा परियत्तउ ॥
भासिव्वा हिया भासा, सपक्खगुणकारिया ॥ १ ॥ [ उत्त. नि. गा. २७९वृ. ]
ततः करकण्डुः कण्डूयनीं मुमोच ततो विहृताः सर्वे ।
पुप्फुत्तराओ चवणं, पव्वज्जा होइ एगसमएणं ।
पत्तेयबुद्धकेवलि, सिद्धिगया एगसमएणं ॥ ५ ॥ [ उत्त. नि. गा. २७९वृ. ] तेषां महाशुक्रपुष्पोत्तरविमानाच्च्यवनं एकसमये, प्रव्रज्या भवत्येकसमयेन, प्रत्येकमेकैकं हेतुमाश्रित्य बुद्धा ज्ञाततत्वाः प्रत्येकबुद्धाः केवलिनः सिद्धाश्चैकसमये चत्वारोऽपि त्रयाणां शब्दानां कर्मधारयः कार्यः ||४७||
तथा
सोवीररायवसहो, चिच्चाणं मुणी चरे । उद्दायणो पव्वइओ, पत्तो गड़मणुत्तरं ॥४८॥
व्याख्या - सौवीरो देशः, सौवीरराजवृषभस्त्यक्त्वा राज्यमिति, मुनिर्वाचंयमी - भूतोऽचारीद् व्रतम् उदायननामा प्रव्रजितः सन् प्राप्तो गतिमनुत्तराम् ||
तच्चरित्तमित्थं- सौवीरदेशे वीतभयपुरे उदायनराट्, तस्य प्रभावती राज्ञी, सा चेटकसुता श्राविका । तयोर्ज्येष्ठपुत्रोऽभिचिनामाऽभूत्, भागिनेयश्च तस्य केशीनामाऽभूत् । स उदायननृपः सिन्धुसौवीरप्रमुखषोडशजनपदानां वीतभयप्रमुखत्रिशतत्रिषष्टिनगराणां दशराज्ञां बद्धमुकुटानां, छत्राणां चामराणां चैश्वर्यं पालयन्नस्ति । इतश्चम्पायां नगर्यां कुमारनन्दिनामा स्वर्णकारोऽस्ति । स च स्त्रीलम्पटो यत्र यत्र सुरूपां दारिकां पश्यति जानाति वा, तत्र तत्र पञ्चशतसुवर्णानि दत्वा तां परिणयति । एवं च तेन पञ्चशतकन्याः परिणीताः, एकस्तम्भं प्रासादं च कारयित्वा तस्मिंस्ताभिः सह क्रीडति । तस्य च मित्रं नागिलनामैकः श्रावकोऽस्ति । अन्यदा पञ्चशैलद्वीपवास्तव्यहासाप्रहासाख्यव्यन्तर्योर्भर्त्ता विद्युन्मालिनामा देवश्च्युतः, तदा ताभ्यां चिन्तितमथावां कमपि व्युद्ग्राहयावः, य आवयोर्भर्त्ता भवेत् ।
अथ स्वयोग्यपुरुषगवेषणायेतस्ततो व्रजन्तीभ्यां ताभ्यां चम्पानगर्यां कुमारनन्दी स्वर्णकारः पञ्चशतस्त्रीपरिवृतो दृष्टः, ताभ्यां चिन्तितमेनं स्त्रीलम्पटं सुखेन व्युद्ग्राहयिष्यावः,
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org