Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 318
________________ अष्टादशं संयतीयाध्ययनम् २७५ राज्ञे दर्शितः, विस्मितेन राज्ञा तत्कारणं पृष्टो मन्त्री जगौ स्वामिन् ! युष्माभिरेका मञ्जरी गृहीता, ततः सर्वैरपि तत्सर्वस्वग्रहणतः स केवलं काष्ठावशेषीभूतः, तत् श्रुत्वा राजा दध्यौ अहो राज्यश्रीरप्येवंविधैवानित्या ततोऽलमेतया ।। जो चूयरुक्खं सुमणाभिरामं, समंजरीपल्लवपुप्फचित्तं । रिद्धि अरिद्धि समुपेहिया णं, गंधारराया वि समिक्ख धम्मं ॥१॥ [ उत्त. नि. गा.२७५ ] धर्म समीक्षते, चारित्रधर्मं स्वीकुरुते, समैक्षिष्ट सुकृतं वा । तथावसभे य १ इंदकेऊ २, वलए ३ अंबे य पुष्फिए ४ बोही । करकंडु दुम्मुहस्स य, नमिस्स गंधाररन्नो य ॥२॥ [उ. नि./गा.२६५ ] अथ ते चत्वारोऽपि विरहन्तः क्षितिप्रतिष्ठितपुरे चतुर्द्वारदेवकुले प्राप्ताः, पूर्वेण करकण्डुः प्राप्तः,दक्षिणेन नमिरेवं निर्गतिद्विमुखावपि तत्र प्राप्तौ, तत्रस्थो यक्षोऽपि कथं साधोविमुखो भवेयमिति ध्यात्वा चतुर्मुखो बभूव । अथ तत्राजन्मकण्डुव्याधिना पीडितेन करकण्डुना स्वकर्णस्थकण्डुयिनी शलाका तत्रैकत्राऽगोपि । तद् दृष्ट्वा द्विमुखोऽवक् जया रज्जं च रटुं च, पुरं अंतेउरं तहा । सव्वमेयं परिच्चज्जं, संचयं किं करेसिमं ॥१॥ [ उत्त. नि. गा.२७६] तदा नमिर्द्विमुखमाहजया ते पेइए रज्जे, कया किच्चकरा बहू। तेसिं किच्चं परिच्चज्ज, अज्ज किच्चकरो भव ॥२॥ [उत्त. नि. गा.२७७] पैत्रिके राज्ये यदा त्वया कृत्यकरा बहवः कृताश्चासन् , तेषां कृत्यं परित्यज्य, गृहीतव्रतोऽद्य कृत्यकरो नियुक्तकोऽन्यदोषचिन्तया कुतो भवसि ? ततो गान्धारो नमिं प्राह जया सव्वं परिच्चज्ज, मोक्खाय घडसी भवं । परं गरीहसी केणं, अत्तनीसेसकारए ॥३॥ [उत्त. नि. गा.२७८] मोक्षाय घटसे चेष्टसे, आत्मनो निःशेषाभावं कर्म तत्कारकः सर्वकर्मक्षयकृत् , आत्मनो निःश्रेयसो मोक्षस्तत्कारको वा । ततः करकण्डुर्द्विमुखादीनामाह मोक्खमग्गं पवन्नेसु, साहूसु बंभयारिसु । अहियत्थं निवारंतो, न दोसं वत्तुमरिहसि ॥४॥ [ उत्त. नि. गा.२७९] अहियत्थं अहितार्थं निवारयतो दोषं परनिन्देयं तवेति वक्तुं नार्हसि, यथा त्वमहितान्निवारयन्तं किमु गर्हसि ? तथा नमिरद्य कृत्यकर इति, द्विमुखः सञ्चयं किं _Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350