Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan
View full book text
________________
२६३
अष्टादशं संयतीयाध्ययनम्
चइत्ता भारहं वासं, चक्कवट्टी महिड्डीओ ।
पव्वज्जामब्भुवगओ मघवं नाम महायसो ॥३६॥ व्याख्या-त्यक्त्वा भारतं वर्षं चक्रवर्ती महद्धिकः प्रव्रज्यामभ्युपगतो मघवानामा महायशाः ॥
तत्कथा चेत्थं-भरते श्रावत्स्यां समुद्रविजयस्य राज्ञो भद्रादेव्या चतुर्दशस्वप्नसूचितो मघवांस्तृतीयश्चक्री जातः, यौवनस्थो लब्धराज्यः साधितभरतः सुचिरं चक्रित्वमुपभुज्य संवेगमाप्य सुतदत्तराज्य: प्रव्रजितस्तपांसि कृत् स्वर्ययौ ॥३६।।
सणंकुमारो मणुस्सिदो, चक्कवट्टी महिड्डीओ ।
पुत्तं रज्जे ठवित्ताणं, सो वि राया तवं चरे ॥३७॥ व्याख्या सनत्कुमारो मनुष्येन्द्रश्चक्री महद्धिकः पुत्र राज्ये स्थापयित्वा सोऽपि राजा तपोऽचरत् ।
तच्चरित्रं प्रसिद्धं-शक्रः सभायां सनत्कुमरचक्रिरूपमस्तौत् । अश्रद्धया द्वौ देवौ विप्रो भूत्वाऽभुक्ते सनत्कुमारे तद्रूपं समीक्ष्य विस्मितौ, राज्ञाागमनहेतुं पृष्टावूचतुः, तव रूपदर्शनायावां समागतौ । सोऽवक् सदस्यागम्यं । गतौ देवौ । कृतस्नानाद्यलङ्कारे सपरिवारे सभोपविष्टे नृपे तावागतौ । चक्रिरूपं दृष्ट्वा सखेदौ जातावधोमुखौ । चक्र्याह किमेतत् ? तावाहतुर्भवत्स्वरूपमेवं कथं ? ततोऽनन्तगुणहीनं तवाधुना रूपं जातं । ततो राज्ञा पृष्टौ ताववधिना तच्छरीरं रोगाभिभूतं निवेद्य स्वर्गतौ । तदा सनत्कुमारस्तृणाऽसारं देहं ज्ञात्वा तृणवद्राज्यं त्यक्त्वा प्रावाजीत् । सप्तसहस्रवर्षाण्यष्टादशरोगानधिसह्य त्रिवर्षलक्षायुः सुचारित्रो देवकृतपरीक्ष एकावतारी सनत्कुमारो बभूव ॥३७||
चइत्ता भारहं वासं, चक्कवट्टी महड्डीओ ।
संती संतिकरो लोए, पत्तो गइमणुत्तरं ॥३८॥ व्याख्या-त्यक्त्वा भारतं वर्ष चक्रवर्ती महद्धिकः शान्तिनामा तीर्थकृत् शान्तिकरो लोके प्राप्तो गतिमनुत्तराम् ॥ शान्तिवृत्तान्तः प्रसिद्ध एव ॥३८॥
इक्खागरायवसहो, कुंथुनाम नरेसरो । विक्खायकित्ती भयवं, पत्तो गइमणुत्तरं ॥३९॥
Jain Education Internationaks.2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350