SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २६३ अष्टादशं संयतीयाध्ययनम् चइत्ता भारहं वासं, चक्कवट्टी महिड्डीओ । पव्वज्जामब्भुवगओ मघवं नाम महायसो ॥३६॥ व्याख्या-त्यक्त्वा भारतं वर्षं चक्रवर्ती महद्धिकः प्रव्रज्यामभ्युपगतो मघवानामा महायशाः ॥ तत्कथा चेत्थं-भरते श्रावत्स्यां समुद्रविजयस्य राज्ञो भद्रादेव्या चतुर्दशस्वप्नसूचितो मघवांस्तृतीयश्चक्री जातः, यौवनस्थो लब्धराज्यः साधितभरतः सुचिरं चक्रित्वमुपभुज्य संवेगमाप्य सुतदत्तराज्य: प्रव्रजितस्तपांसि कृत् स्वर्ययौ ॥३६।। सणंकुमारो मणुस्सिदो, चक्कवट्टी महिड्डीओ । पुत्तं रज्जे ठवित्ताणं, सो वि राया तवं चरे ॥३७॥ व्याख्या सनत्कुमारो मनुष्येन्द्रश्चक्री महद्धिकः पुत्र राज्ये स्थापयित्वा सोऽपि राजा तपोऽचरत् । तच्चरित्रं प्रसिद्धं-शक्रः सभायां सनत्कुमरचक्रिरूपमस्तौत् । अश्रद्धया द्वौ देवौ विप्रो भूत्वाऽभुक्ते सनत्कुमारे तद्रूपं समीक्ष्य विस्मितौ, राज्ञाागमनहेतुं पृष्टावूचतुः, तव रूपदर्शनायावां समागतौ । सोऽवक् सदस्यागम्यं । गतौ देवौ । कृतस्नानाद्यलङ्कारे सपरिवारे सभोपविष्टे नृपे तावागतौ । चक्रिरूपं दृष्ट्वा सखेदौ जातावधोमुखौ । चक्र्याह किमेतत् ? तावाहतुर्भवत्स्वरूपमेवं कथं ? ततोऽनन्तगुणहीनं तवाधुना रूपं जातं । ततो राज्ञा पृष्टौ ताववधिना तच्छरीरं रोगाभिभूतं निवेद्य स्वर्गतौ । तदा सनत्कुमारस्तृणाऽसारं देहं ज्ञात्वा तृणवद्राज्यं त्यक्त्वा प्रावाजीत् । सप्तसहस्रवर्षाण्यष्टादशरोगानधिसह्य त्रिवर्षलक्षायुः सुचारित्रो देवकृतपरीक्ष एकावतारी सनत्कुमारो बभूव ॥३७|| चइत्ता भारहं वासं, चक्कवट्टी महड्डीओ । संती संतिकरो लोए, पत्तो गइमणुत्तरं ॥३८॥ व्याख्या-त्यक्त्वा भारतं वर्ष चक्रवर्ती महद्धिकः शान्तिनामा तीर्थकृत् शान्तिकरो लोके प्राप्तो गतिमनुत्तराम् ॥ शान्तिवृत्तान्तः प्रसिद्ध एव ॥३८॥ इक्खागरायवसहो, कुंथुनाम नरेसरो । विक्खायकित्ती भयवं, पत्तो गइमणुत्तरं ॥३९॥ Jain Education Internationaks.2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy