________________
२६४
श्रीउत्तराध्ययनदीपिकाटीका-१ व्याख्या-इक्ष्वाकुवंशजा राजानस्तेषु वृषभः प्रधानः कुन्थुनामा नरेश्वरः, विख्यातकीर्तिर्भगवान् प्राप्तो गतिमनुत्तराम् ।।
तद्वृत्तान्तस्तु-गजपुरे सूरराजश्रीदेव्योरर्हन् पुत्रोऽभूत् । जन्ममहादनु स्वप्ने मात्रा रत्नस्तूपः कुस्थो दृष्टः, शत्रवश्च गर्भस्थेऽर्हति कुन्थुप्राया जाताः, ततस्तस्य कुन्थुरिति नाम दत्तं । यौवने राट्कन्या विवाहितोऽसौ राज्येऽस्थापि, सूरराजा प्राव्राजीत् , कुन्थुरर्हन् चक्रादिरत्नोत्पत्तौ जितभारतवर्षश्चक्रिभोगान् भुक्त्वा निष्क्रम्य षोडश वर्षाणि छद्मस्थोग्रविहारात् केवलमासादितवान् । देवैः समवसरणं कृतं । गणधरादिस्थापना । काले च सम्मेताद्रौ स मोक्षं गतः । कुमारत्वे माण्डलिकत्वे चक्रित्वे श्रामण्ये च त्रयोविंशतिवर्षसहस्राणि सार्द्धसप्तशतानि च वर्षाणां प्रत्येकमासन्नस्यार्हतः ॥३९॥
सागरंतं परिच्चज्ज (चइत्ताणं), भरहं नरवरीसरो ।
अरो य अरयं पत्तो, पत्तो गइमणुत्तरं ॥४०॥ व्याख्या-सागरान्तं भरतं त्यक्त्वा नरवरेश्वरो, रजसः कर्मणोऽभावरूपं प्राप्तः सन् प्राप्तो गतिमनुत्तरामिति ॥
तथाहि-गजपुरे सुदर्शनराट्देव्योः पुत्रोऽभूत् , जन्मोत्सवादन्वम्बा स्वप्ने रत्नारमपश्यदिति क्लुप्तारनामा तारुण्ये पितृदत्तराज्यश्चक्रित्वं प्राप्तवान् । राज्यं त्यक्त्वा श्रामण्ये वर्षत्रयेण तस्य केवलं जातं । प्रवर्तिततीर्थोऽसौ सम्मेताद्रौ मुक्तः, कौमारत्वे माण्डलिकत्वे चक्रिरत्वे श्रामण्ये चैकविंशतिवर्षसहस्राणि प्रत्येकमस्य ॥४०॥
चइत्ता भारहं वासं, चक्कवट्टी महड्डीओ।
चइत्ता उत्तमे भोए, महापउमो तवं चरे ॥४१॥ व्याख्या-स्पष्टं, नवरं त्यक्त्वोत्तमान् भोगान् महापद्मश्चक्री तपोऽचरत् ॥४१॥
यथा-कुरुक्षेत्रे गजपुरे श्रीऋषभवंश्यः पद्मोत्तरो राजा, तस्य ज्वालादेव्यां सुश्राविकायां सिंहस्वप्नसूचितो । विष्णुकुमाराख्यः सुतः, तथा द्वितीयश्चतुर्दशस्वप्नसूचितो महापद्मनामा सुतोऽभूत् । द्वावपि तारुण्योपेतौ जातो, अथ विष्णुकुमारो राज्ञा युवराजः कृतः । इतोऽवन्त्यां श्रीवर्मराज्ञो नमुचिनामा मन्त्री बभूव । तत्र श्रीमुनिसुव्रतार्हतः शिष्याः श्रीसुव्रताचार्याः समवसृताः, तन्नत्यै सर्वा लोकान् यातो दृष्ट्वा नृपः समन्त्री तान्नन्तुं गतः, तत्र नमुचिर्जेनाऽरुचिराचार्यैः समं वितण्डां तन्वन् क्षुल्लेनैकेन राज्ञः समक्ष निरुत्तरीकृतो लोकैर्हसितो गतोऽन्तर्वैरं वहन् साधुषु, निशि मुनीन् हन्तुं प्राप्तः, सुर्या च
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org