________________
अष्टादशं संयतीयाध्ययनम्
२६५ सोऽस्तम्भि । प्रातस्तं तथास्थं दृष्ट्वा राट् पौरलोकश्चार्हद्धर्म प्राप्ताः, नमुचिर्जनैर्निन्द्यमानो विलक्षो गजपुरे गत्वा महापद्मकुमारस्य मन्त्री जातः । राजादेशान्नमुचिर्विषमं दुर्ग भक्त्वा सिंहबलं पल्लीशं देशमोषकं बद्ध्वागात् । महापद्मन तुष्टेन वरं वृण्वित्युक्तोऽवसरे याचिष्ये इति स जगौ ।
अन्यदा महापद्ममात्रा ज्वालादेव्या जिनभवने रथोऽकारि, तदीर्घ्यया लक्ष्मीनामान्यया राज्या महापद्मविमात्रा मिथ्यात्विन्या ब्रह्मरथोऽकारि । अथ लक्ष्या राज्ञे प्रोक्तं हे प्रिय ! पूर्वं ब्रह्मरथः पुरे भ्रमतु, पश्चाच्च जैनरथः, तत् श्रुत्वा ज्वालादेव्या राज्ञोऽग्रे प्रतिज्ञातं चेज्जैनरथयात्रा पूर्वं न स्यात्तदा ममान्नपाने परभवे । तदा राज्ञा द्वावपि रथौ निषिद्धौ । महापद्मः स्वमातू रथयात्रामनोरथं पूरयितुमशक्तः खेदान्निःसृतोऽटव्यां भ्रमंस्तापसाश्रमं ययौ, तापसाग्रहाच्च स तत्र तस्थौ । तदा चम्पायां जनमेजयनामा राजा कालाख्यवैरिणा रुद्धः, पौरजनो नष्टः, तस्यान्तःपुरेऽपि यत्र तत्र नश्यति, राज्ञः पट्टराज्ञी नागवती मदनावलीपुत्र्या सह नश्यन्ती तत्रैव तापसाश्रमे समेता । कुलपतिनापि सा तत्रास्थापि । इतस्तत्र महापद्ममदनावल्योरन्योऽन्यालोकादनुरागोऽजनि । कुलपतिना तद् ज्ञात्वा नागवत्यै उक्तं । तया मदनावल्युक्ता, यथा पुत्रि ! त्वं किं न स्मरसि नैमित्तिकोक्तं ? यत्त्वं महापद्मस्य चक्रिण: स्त्रीरत्नं भवति, तत्कि यत्र तत्रानुरज्यसे ? अथ कुलपतिनापि विसृष्टः स कुमारो नूनमेतां प्राप्याहं चक्री भूत्वा जिनमन्दिरमण्डितां महीं करिष्ये, इति मनोरथाकुलो मदनावलीमेवान्तायन् गतः सिन्धुनन्दनं पुरं, तस्योद्याने मधूत्सवे तदा पौरीषु क्रीडन्तीषु महासेनराज्ञः पट्टेभो मत्तो भ्रमन्नाययौ । ता नंष्टुमशक्ता भयत्रस्ताः कोऽप्यस्ति योऽस्मान् रक्षतीतिपुत्कुर्वतीदृष्ट्वा महापद्मो वेगादेत्य भूपादिभिर्निवार्यमाणोऽपि तमिभं वशीकृत्यालानेऽबन्धयत् । राज्ञा तत्कलाचमत्कृतेन तस्मै राजकन्याशतं परिणायितं । ताभिः सह स रमे । एकदा निशि काचित् खेचरी तत्रागत्य महापद्मकुमार प्रति कथयामास हे कुमार ! वैताढ्याद्रौ सूरोदयपुरे इन्द्रधनुखेचरेन्द्रस्य श्रीकान्ताराश्यां जयचन्द्राख्या सुता जज्ञे । सा नरद्वेषिणी वरं नैच्छत् , पित्रा भारता नृपाः सर्वे पट्टिकायां लिखित्वा दर्शिताः, परं नैकोऽप्यस्या रुरुचे ।
अन्यदा तव रूपे दृष्टे सा त्वयि रक्ता मामूचे हे हले ! महापद्मं विनाऽग्नि विशामि। ततो मयैतत्तन्मातृपितृणामुक्तं, तैश्चाहं त्वामानेतुं प्रहिता, अहमपि यदीमं नानये तदाग्नौ विशामीति तामुक्त्वैतास्मि, अतस्त्वं तत्रागच्छ ! अन्यथा मया मर्त्तव्यं । अथ राजानुमत्या तया स तत्र नीतो जयचन्द्रां च विवाहितः, ततो जयचन्द्रामातृपक्षीया
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org