________________
२६६
श्रीउत्तराध्ययनदीपिकाटीका-१ गङ्गाहरमहीहराद्याखेटकुमारा महाबला महापद्मोढां तां श्रुत्वा योद्धमागुः, महापद्मश्च तानजैषीत् । तदा कुमारस्य स्त्रीरत्नवर्जं सर्वरत्नानि निधयश्च प्रादुरासन् । सर्वसुरखेटनरेशैः सेव्योऽसौ गजादिबलवान् नवमश्चक्र्यभूत् । अथ स तदप्यैश्वर्यं मदनावली विना नीरसमिव मन्वानो गतस्तापसाश्रमं । तत्रागतश्च स जनमेजयनृपेण तापसैश्च सत्कृत्य परिणायितो मदनावली, स्त्रीरत्नं च साभूत् । एवं महा चक्री गजपुरं प्राप्तो मातृपितृभ्रातृन्ननाम । अथ स एव श्रीसुव्रतसूरिस्तत्र समवासरत् , पद्मोत्तराद्यास्तं नन्तुं गताः, तद्देशनया निविण्णो राड् ज्येष्ठं सुतं विष्णुकुमारं राज्याय न्यमन्त्रयत् , तस्मिन्ननिच्छति महापद्मस्य महाराज्याभिषेकं कृत्वा स विष्णुकुमारेण सह प्राव्रजीत् । ततो महापद्मचक्रिणा निजमातुर्जिनरथयात्रामनोरथोऽपूरि, कृता च जिनमन्दिरमण्डिता मही । पद्मोत्तरमुनिः क्षपितकर्मा लब्धकेवलः शिवं ययौ । विष्णुकुमारर्षेश्चोग्रतपसा खचारित्ववैक्रियाद्या बहुलब्धय उत्पन्नाः, अत्र नियुक्ति:
मेरु व्व तुंगदेहो, वच्चइ गयणमि पक्खिनाहो व्व ।
मयणो व्व रूववंतो, बहुरूवो होइ तियसो व्व ॥१॥ [ ] अन्यदा बहुतन्त्राः श्रीसुव्रताचार्या गजपुरोधाने एता वर्षारात्रिस्थित्यै । ज्ञाताश्च ते पूर्वविरुद्धेन नमुचिना, ततोऽवसरमाप्य तेन चक्री व्यज्ञपि, स्वामिन् यज्ञं कर्तास्म्यहं ततो ममोक्तवरे राज्यं देहि ! राज्ञा स राज्येऽभिषिक्तः, स्वयं चान्तःपुरेऽस्थात् , नमुचिः पुरान्निःसृत्य यज्ञार्थं यज्ञपाटकमेत्य यज्ञदीक्षितोऽभूत् । तद्वर्धापनार्थं च सर्वे लोका लिङ्गिनश्चैताः, अथ तेन छलान्वेषिणा सुव्रताचार्या आकार्योक्ताः, अहो सर्वे वर्णा लिङ्गिनश्च मां वर्धापयितुमेताः, न यूयं, अहं नेष्ट इति नैताः, पुनर्मन्निन्दां च कुरुथ, अतो मद्देशं त्यक्त्वाऽन्यत्र यात ! गुरुणोचे मन्त्रिन् वर्षासु जीवविराधनभावतो विहारो नास्मत्कल्पः, न च वयं कञ्चिन्निन्दामः, समभावा एवं वयं । सोऽवक् सप्ताहोर्ध्वं चेदेकं मुनिमत्र दक्ष्यामि तदाऽवश्यं हनिष्यामि, तत् श्रुत्वा गुरव उद्याने गताः, सङ्घः साधवश्च मिलिताश्चिन्तयामासुः किमथ कार्य ? तदैकेन साधुनोचे महापद्मभ्राता विष्णुकुमारषिर्महालब्धिपात्रं सम्प्रति मेरौ तिष्ठति, स चेदेति तदा तद्वाचा नमुचिरुपशाम्यति, गुरुणोचे स कोऽपि लब्धिमानस्ति यस्तत्र याति । एकेन यतिनोचेऽहं यामि शक्त्या, नागन्तुमलं । गुरुणोचेऽग्रतश्चिन्ता विष्णोः, अथ स मुनिलब्ध्या व्योम्न्युत्पत्य मेरौ ययौ, विष्णुः सर्वं तन्मुखादुन्तं ज्ञात्वा तमादाय तदैव गुरूपान्तमेत्य गुरून्नत्वा साधुसङ्घयुग्गतो नमुचिसभां । नमुचिं विना सर्वैरपि नतोऽसौ भूपैः, स धर्मोपदेशपूर्व नमुचिमूचे मन्त्रिन्ननुमन्यस्व यथात्र गुरवो वर्षारानं तिष्ठन्ति, तेन विशेषाज्जातामर्षेणोचे पञ्चदिनोर्ध्वं साधुं दृष्टं हन्म्येव ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org