________________
२६२
श्रीउत्तराध्ययनदीपिकाटीका-१ अत्रान्तरे देवः कोऽपि द्विजरूपः समेत्य वह्निप्रविशतस्तान्निषिध्योवाच युष्माभी राज्ञोऽन्ते समेतव्यं, न च भेतव्यमित्युक्त्वाऽनाथमृतकमेकमादाय मुष्टोऽस्मि मुष्टोऽस्मीति भणन् राजद्वारे ययौ । राज्ञा ज्ञात्वा स स्वपार्श्वमानीतः, पृष्टोऽवक् देव ममैष एकः सुतः, स चाऽहिनाद्य दष्टस्ततोऽमुं जीवय ! तदा राज्ञा कुरु निर्विषमेनमिति वैद्य आज्ञप्तः, सोऽपि ज्ञातनृपसुतमृतिरूचे, देव यद्गोत्रे कोऽपि कदापि न मृतस्तद्गृहाद्रक्षामानाय्यतां, यथेमं जीवयामि, ततो राज्ञज्ञप्तो द्विजो गत्वागत्योचे तद्गृहं नास्ति, यत्र न कोऽपि मृतः, तदा राज्ञोचे तर्हि हे द्विज ! सर्वसाधारणे मरणे त्वं मा शोची:, विप्रोऽवक् देव एवं जाने, परं पुत्रादृतेऽधुनैव मे कुलक्षयोऽभूत् , तज्जीवयैनं ममैकं सुतं ! राजोवाच भद्र ! अशक्यप्रतिकारा भवितव्यता, अतस्त्यज शोकं ! कुरु च परत्रहितं ! अज्ञः कुर्याच्छोकं । विप्रोऽवक् तर्हि हे राजन् ! त्वमपि तं मा कार्षीः, ततो राज्ञा पृच्छता षष्टिसहस्रसुतमृतिः श्रुता, तदैव सार्थलोका अपि रुदन्तस्तत्रैयुः, राजा वज्राहत इव सिंहासनान्मूर्छितो भूमौ पतितो विविधं विलपन् विप्रेणोक्तो राजन् मामेवमुपदिशन् ज्ञोऽपि किं शोचसे ? ततोऽमात्यादिभिर्बोधितोऽसौ तत्प्रेतकार्याणि चक्रे । अत्रान्तरेऽष्टापदासन्नवासिजना एत्य भूपं व्यजिज्ञपन् स्वामिन् गङ्गाप्रवाहो जहनानीतः परिखां प्रपूर्य ग्रामादीन् प्लावयन्निवार्यः, ततो राज्ञा पौत्रो भगीरथोऽभाणि, वत्सेन्द्रानुमत्या दण्डरत्नेन गङ्गां पूर्वाब्धौ नय ! सोऽप्यष्टापदपाश्र्वं गत्वाऽष्टमाराधितव्यन्तरेन्द्रप्रत्यक्षादेशाद् गङ्गां दण्डरत्नखातभूमार्गेण पूर्वाब्धौ निन्ये। तत्राऽनेकमुखवहनाद् गङ्गा सहस्रमुख्यभूत् । यत्र चाब्धौ पतिता, तत्र गङ्गासागरं तीर्थं जातं । गङ्गा जह्वनानीतेति जाह्नवी, भगीरथेन विनीतेति भागीरथीत्युक्ता, सगरस्य समुद्रयायिगङ्गाकारितत्वात् सागरी कीर्तिर्जाता, भगीरथ इन्द्र मिलित्वाऽयोध्यां गतः, सगरेण च स राज्येऽस्थापि । सगर: श्रीअजितपार्श्वे प्रव्रज्य ७२लक्षपूर्वायुः सिद्धः । भगीरथराज्ञाऽन्यदा ज्ञानी पृष्टो भगवन् जवादीनां समकालं मृतिः कथं ? तेनोक्तं सम्मेतादि सङ्घश्चैत्यनत्यै प्रस्थितः क्वापि ग्रामे प्राप्तः, तत्र षष्टिसहस्राऽनार्यलोकैरेकस्मिन् भद्रके कुम्भकारे बहु वारयत्यपि स समृद्धित्वान्मुष्टः, अन्यदा तन्निवासिनैकेन राजधान्यां चौर्यं कृतं, पदानुगामिभिर्नृपनरैस्तद्ग्रामद्वारं पिधाय पाकप्राप्तसङ्घलुण्टनपापादग्निदानेन तानि षष्टिसहस्राण्यदाह्यन्त । कुम्भकृत्तदा स्वजनकार्यार्थमन्यग्रामगतो जीवितः, अथ ते सर्वे मृत्वा मातृवाहका जाताः, हस्तिपादान्मृत्वा बहुयोनिषु भ्रान्त्वा कस्मादपि शुभकर्मणः सगरसुता जाताः, कुम्भकारश्चायुःक्षये मृत्वा क्वापि ग्रामे धनी वणिग्जातः, कृतसुकृतो मृत्वा भूपो जातः, प्रव्रज्य सुरो भूत्वा त्वं जह्वसुतो भगीरथोऽभूः, स तत् श्रुत्वा संविज्ञो धर्मं प्रपेदे ॥३५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org