________________
२६१
अष्टादशं संयतीयाध्ययनम्
सगरो वि सागरंतं, भरहवासं नराहिवो ।
इस्सरियं केवलं हिच्चा, दयाए परिनिव्वुओ ॥३५॥ व्याख्या-सगरोऽपि सागरान्तं अब्धिप्रान्तं दिग्विजये औदिच्यां हिमवदन्तं भरतवर्ष, चैश्वर्यं केवलं परिपूर्णं हित्वा नराधिपो दयया संयमेन परिनिर्वृतो मुक्तः ।।
यथाऽयोध्यायां ईक्ष्वाकुवंशे जितशत्रुराजाभूत् , तस्या भ्राता सुमित्रविजयो युवराजः, विजयायशोमत्यौ तयोर्भार्ये, विजयायाश्चतुर्दशस्वप्नैः सूचितः श्रीअजितस्तीर्थकृत्सुतः, यशोमत्याश्च सगरचक्री सुतः, तौ यौवने राट्कन्याः परिणीतौ, कालेऽजितं राज्ये, सगरं च युवराजे संस्थाप्य जितशत्रुसुमित्रविजयौ दीक्षितौ सिद्धौ च । श्रीअजितः सगरं राज्येऽभिषिच्य प्रव्रज्य केवलीभूय सिद्धः । अत्र नियुक्ति:
अजियस्स कुमारत्तं, अट्ठारसपुव्वसयसहस्साइं ।
तेवन्नं पुव्वंगं, रज्जे पुव्वंगऊणलक्खवयं ॥१॥ [आ. नि./गा.२७८ ] सागरः पूर्वाङ्गाधिक७१पूर्वलक्षैरुत्पन्नचतुर्दशरत्नो जितषट्खण्डो भारतराज्यं चक्रे। जातास्तस्य षष्टिसहस्राणि सुताः, तेषु ज्येष्ठो जह्वकुमारो राज्ञोऽनुमत्या समस्तबन्धुयुक् पृथ्वीं पश्यन्नष्टापदं प्राप्य तदधः सैन्यं निवेश्य सुरसान्निध्यात्तच्छिरोऽधिरुह्य भरतकारितचतुर्विंशतिजिनबिम्बानि नत्वा स्तूपादींश्च दृष्ट्वा मन्त्रिमुखात् स्वपूर्वजकारितं च तद् ज्ञात्वोचे भो वीक्षध्वमेतत्सममन्याद्रि, ततो राजनरैः सर्वां क्ष्मां निभाल्योचे स्वामिन्नास्तीदृशोऽद्रिः, ततोऽस्यैव राक्षां कुर्म इति सर्वे चक्रिपुत्रा जह्वमुख्या दण्डरत्नेनाष्टापदे परितः परिखां चक्रुः, तदा दण्डरत्नं सहस्रयोजनानि दर्भवद्भुवम्भित्वाऽधो व्यन्तरभवनान्यगात् , भिन्नानि च तद्भवनानि । तदद्भुतं दृष्ट्वा भीता नागाः शरणाय ज्वलनप्रभव्यन्तरेन्द्रं गताः, उक्तः स्वोदन्तः, इन्द्रः सगरसुतानेत्योचे, भो ! व्यन्तरलोकः सोपद्रवो भवति, किमेतदारब्धमनात्मज्ञैर्भवद्भिः ? ततो जह्वना मृदूचे भो इन्द्र ! अष्टापदतीर्थरक्षणार्थं परिखा कृता, नाऽथ कुर्म इक्, कुरु प्रसादं ! क्षमस्व मन्तुं ! सोऽकोपो गतः स्थानं, अथ जल्वादिभिः परिखा जलपूर्णास्त्विति दण्डरत्नेन गङ्गा वालयित्वानीता, जलैः पूर्णा परिखा, मृज्जलपूरो गतो भवनेषु, त्रस्तो व्यन्तरलोकः, ज्वलनप्रभोऽवधिना तज्जवादिकृतं ज्ञात्वा क्रुद्धा दृग्विषान्नागकुमारान् स्वसङ्गतिकांस्तत्र प्रेषीत् । तैर्व्वलन्नैत्रैरीक्षिता जह्वमुखाः सर्वे भस्मीभूताः, मन्त्रिसामन्ताः ससैन्याः प्रस्थिता अयोध्यां प्राप्ता मन्त्रयन्ति स्म, कुमारान् मुक्त्वैता राज्ञः किं मुखं दर्शयामो वहावेव प्रविशाम इति ।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org