________________
२६०
श्रीउत्तराध्ययनदीपिकाटीका-१ अथ सञ्जयमुनिनोक्तं कथमायुर्वेत्सीति पृष्टोऽसावाह
जं च मे पुच्छसी काले, सम्मं सुद्धेण चेयसा ।
ताई पाउकरे बुद्धे, तं नाणं जिणसासणे ॥३२॥ व्याख्या-यच्च 'मे' इति मां पृच्छसि काले कालविषयमायुविषयं सम्यक् शुद्धेन चेतसा, 'ताई'ति तत्प्रादुष्करोम्यहं बुद्धः सर्वज्ञः श्रुतादिज्ञानी, ततश्च यत्किञ्चिदिह प्रचरति ज्ञानं तज्जिनशासनेऽस्ति, न त्वन्यस्मिन् सुगतादिशासने, ततोऽहं तत्र स्थितस्तत्प्रसादाबद्धोऽभूवं, यच्च त्वं पृच्छसि तदहं प्रतिक्रान्तप्रश्नादिरपि वच्मि, पृच्छ यथेच्छम् । एवं संयतेनायुःपृष्टस्तदुत्तरं दत्वा क्षत्रिय ऊचे, यथाहं जानामि तथा त्वमपि जानीषेऽर्हन्मतात् , तस्माज्जैनमते एव यत्नः कार्यः ॥३२॥
पुनरुपदिशति
किरियं च रोयए धीरे, अकिरियं परिवज्जए ।
दिट्ठिए दिट्ठिसंपन्नो, धम्मं चर सुदुच्चरं ॥३३॥ व्याख्या-क्रिया चास्ति जीव इत्यादिकां, सदनुष्ठानाद्यां वा रोचयेद्धीरोऽक्षोभ्यः, अक्रियां नास्त्यात्मेत्याद्यां मिथ्यादृक्कल्पिततत्तदनुष्ठानं वा परिवर्जयेत् । दृष्ट्या सम्यग्दर्शनेन युता दृष्टिर्बुद्धिः सम्यग्ज्ञानं, तया सम्पन्न एवं सम्यग्दर्शनज्ञानान्वितः सन् धर्मं चारित्रधर्म चर ! सुदुश्चरमत्यन्तदुरनुष्ठेयम् ॥३३।। पुनः क्षत्रियमुनिः सञ्जयमुनि महापुरुषदृष्टान्तैः स्थिरीकरोति
एयं पुण्णपयं सोच्चा, अत्थधम्मोवसोहियं ।
भरहो वि भारदं वासं, चिच्चा कामाइं पव्वए ॥३४॥ __व्याख्या-एतदनन्तरोक्तं पुण्यहेतुत्वात् पुण्यं [तच्च तत्] पद्यतेऽनेनार्थ इति पदं [च पुण्यपदं,] क्रियावादिनानारुचिवर्जनाद्यावेदकं शब्दसन्दर्भं श्रुत्वा, अर्थोऽर्थ्यमानतया स्वर्गमोक्षादिः, धर्मस्तदुपायभूतः श्रुतधर्मादिः, ताभ्यामुपशोभितं । भरतचक्र्यपि भारतं वर्षं क्षेत्रं त्यक्त्वा कामांश्च, सूत्रत्वात् क्लीबत्वं, प्राव्राजीत् , अत्र भरतदृष्टान्तो वाच्यः । अत्र नियुक्ति:
आयंसघरपवेसो, भरहे पडणं च अंगुलीयस्स ।
सेसाणं उम्मयणं, संवेगो नाण दिक्खा य ॥१॥ [ आ. नि./गा.४३६] केवलादनु इन्द्रो ज्ञानेनैत्य तेनात्ते च लिङ्गे तस्मै अनमत् । दशनृपसहस्त्रैः सह दीक्षा, केवलित्वे विहारोऽष्टापदे मासानशनान्मुक्तिः ॥३४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org