________________
अष्टादशं संयतीयाध्ययनम्
२५९ व्याख्या-अहमभूवं महाप्राणे ब्रह्मलोकविमाने द्युतिमान् वर्षशतजीवितोपमा यस्यासौ वर्षशतोपमः, कोऽर्थः ? यथेह वर्षशतजीवीदानी पूर्णायुरुच्यते, एवमहमपि तत्र परिपूर्णायुरभूवं । तथा या सा पालिरिव पालिर्जीवितजलधारणात् भवस्थितिः, सा चेह पल्यमाना, महापाली तु सागरोपममाना, दिवि भवा दिव्या, वर्षशतैः केशोद्धारहेतुभिरुपमा पल्यविषया यस्याः सा वर्षशतोपमा, तत्र महापाली दिव्या भवस्थितिर्दशाब्ध्युपमासीत् ॥२८॥
से चुए बंभलोगाओ, माणुसं भवमागए ।
अप्पणो य परेसिं च, आउं जाणे जहा तहा ॥२९॥ व्याख्या-सोऽहं च्युतो ब्रह्मलोकान्मानुष्यं भवमागतः, इत्थमात्मनो जातिस्मरणाशयमुक्त्वाऽतिशयान्तरमाह-आत्मनश्च परेषां चायुर्जाने, यथा येन प्रकारेण स्यात्तत्तथैव नत्वन्यथा ॥२९॥ इत्थं प्रसङ्गतोऽपृष्टमपि स्ववृत्तमुक्त्वोपदिशति
नाणारुइं च छंदं च, परिवज्जिज्ज संजए ।
अणट्ठा जे य सव्वत्था, इइ विज्जामणुसंचरे ॥३०॥ व्याख्या-नानारुचिं क्रियावाद्यादिमतविषयामिच्छां, छंदश्चाशयं, इहापि नानेतिसम्बन्धादनेकविधं परिवर्जयेत् संयतः, तथा अनर्था अनर्थहेतवो ये च सर्वार्था हिंसादयस्तान् वर्जयेत् , यद्वा 'सव्वत्था' इति आकारस्याऽलाक्षणिकत्वात् सर्वत्र क्षेत्रादावना निःप्रयोजना ये व्यापारास्तान् वर्जयेत् । इत्येवंरूपां विद्यां सत्यामनुलक्षीकृत्य सञ्चरेत् स्वयं संयमाध्वनि ॥३०॥
अन्यच्च___ पडिक्कमामि पसिणाणं, परमंतेहिं वा पुणो ।
अहो उठ्ठिए अहोरायं, इइ विज्जा तवं चरे ॥३१॥ व्याख्या-प्रतिक्रमामि प्रतिनिवर्ते, सुब्ब्यत्ययात् प्रश्नेभ्यः शुभाशुभसूचकेभ्योऽगुष्ठप्रश्नादिभ्यः, परे गृहस्थास्तेषां मन्त्राः परमन्त्रा गृहिकार्यालोचास्तेभ्यः, वा समुच्चये, पुनर्विशेषेणेति सावद्यत्वं तेषां विशिनष्टि । अहो इति विस्मये उत्थितो धर्मं प्रत्युद्यतः कश्चिदेव हि महात्मैवंविधः स्यादहोरात्रमित्येतदनन्तरोक्तं विद्वान् जानंस्तप एव, न तु प्रश्नादि चरेत् ॥३१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org