________________
२५८
श्रीउत्तराध्ययनदीपिकाटीका-१ व्याख्या-इत्येतत् क्रियावादिनः कुत्सितं प्रभाषन्ते इत्येवंरूपं प्रादुरकार्षीत् बुद्धः सन् ज्ञातको महावीर: परिनिर्वृतः कषायाग्न्यभावाच्छीतीभूतो न तु सिद्धः, ततो राजर्घाभावात् विद्याचरणाभ्यां क्षायिकज्ञानचारित्राभ्यां सम्पन्नः सहितोऽत एव सत्यः सत्यवाक्, सत्यपराक्रमः सत्यवीर्यः ॥२४॥ तेषां फलमाह
पडंति नरए घोरे, जे नरा पावकारिणो ।
दिव्वं च गई गच्छंति, चरित्ता धम्ममारियं ॥२५॥ व्याख्या-पतन्ति नरके घोरे ये नराः स्त्र्यादयोऽपि, पापं असत्प्ररूपणैव तत्कर्तुं शीलमेषां ते पापकारिणः, ये त्वेवंविधा न स्युस्ते दिव्यां च पुनर्गतिं गच्छन्ति, चरित्वा धर्ममिह सत्प्ररूपणारूपमार्यं । अतः सत्प्ररूपणापरेणैव भवता भाव्यमिति भावः ॥२५॥ कथममी पापकारिण इत्याह
मायावुइयमेयं तु, मुसाभासा निरत्थिया ।
संजममाणो वि अहं, वसामि इरियामि य ॥२६॥ व्याख्या-मायया शाठ्येनोक्तं माययोक्तमेवैतत् क्रियत्वाद्युक्तं, तुः एवार्थे, ततश्चैतन्मृषा [भाषा] निरर्थका सत्यार्थशून्या, ततः, अपिः एवार्थे, संयमच्छन्नेवोपरमन्नेव निवर्तयन्नेव तदुक्त्याकर्णनात् , अहमित्यात्मनिर्देशो विशेषतस्तत्स्थिरीकरणार्थं "ठियओ ठावए परं" इति वसामि तिष्ठाम्युपाश्रये, ईर्ये गच्छामि गौचरादौ ॥२६॥
यतः__ सव्वे ते वेइया मज्झं, मिच्छाद्दिट्ठी अणारिया ।
विज्जमाणे परे लोए, सम्मं जाणामि अप्पगं ॥२७॥ व्याख्या-सर्वे ते क्रियावादिनो विदिता मम, यथामी मिथ्यादृष्टयः, तत एवाऽनार्या अनार्यकर्मप्रवृत्ताः, यतो विद्यमाने परे लोकेऽन्यजन्मनि सति सम्यगात्मानं जानाम्यन्यजन्मत आगतं, ततः परलोकात्मनोः सम्यग्वेदनान्ममैते वेदितास्ते, ततोऽहं तदुक्त्या तान्मिथ्यात्विनोऽपाकुर्वे ॥२७॥ कथमित्याह
अहमासि महापाणे, जुइमं वाससओवमे । जा सा पाली महापाली, दिव्वा वरिससओवमा ॥२८॥
चाह
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org