SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ अष्टादशं संयतीयाध्ययनम् २५७ कथञ्चिद्भेदाभेदलक्षणप्रकारान्तराभावेन तदभावस्यैव शिक्ष्यमाणत्वात् । येऽप्युत्पत्त्यनन्तरमेवात्मनः प्रलयमिच्छन्ति तेषामपि तदस्तित्वाभ्युपगमेऽप्यनुचरितपरलोकाद्यसम्भवात्तत्वतस्तदसत्त्वमेव, इत्यक्रियावादित्वमुक्तं हि वाचकैः ___"ये पुनरिहाऽक्रियावादिनस्तेषामात्मैव नास्ति, न चावक्तव्यः, शरीरेण सहैकत्वान्यत्वे प्रति उत्पत्त्यनन्तरप्रलयस्वभावको वा तस्मिन्ननिर्णीते च कर्तृत्वादिविशेषमूढा एव" [ ] इति, अमीषां तु विचाराऽक्षमत्वमात्मास्तित्वस्य योगिप्रत्यक्षचैतन्यानुमानलक्षणद्वयगम्यत्वं, तस्य च शरीरराद्भिन्नाभिन्नरूपतया व्यक्तत्वं । क्षणिकपक्षस्तु सामुच्छेदिकनिह्नववादे एवोन्मूलितत्वादिति । विनयवादिनो विनयादेव मुक्तिमिच्छन्ति । यत उक्तं-"वैनयिकवादिनो नाम येषां सुरासुरनृपतपस्विकरितुरगहरिणगोमहिष्यजाविकश्वशृगालजलचरकपोतकाकोलूकचटकप्रभृतिभ्यो नमस्कारकरणात् क्लेशनाशोऽभिप्रेतो, विनयात् श्रेयो भवति नान्यथेत्यधिवासिताः" [ ] तेऽपि न विचारसहाः, न हि विनयमात्रादिहापि विशिष्टानुष्ठानविकलादिष्टार्थाप्तिरीक्ष्यते, नापि चैषां विनयाहत्वं येन पारलौकिकाश्रयो हेतुता भवेत् , तथाहि-लोकसमयवेदेषु गुणाभ्याधिकस्यैव विनयार्हत्वमिति प्रसिद्धिः, गुणास्तु तत्त्वतो ज्ञानध्यानानुष्ठानात्मका एव, न च सुरादीनामज्ञानाश्रवाऽविरमणादिदोषदूषितानामेतेष्वन्यतरस्यापि गुणस्य सम्भव इति कथं यदृच्छया विधीयमानस्य तस्याश्रयो हेतुतेति । अज्ञानवादिनस्त्वाहः-यथेदं जगत् ब्रह्मादिविवर्त्त इष्यते, अन्यैः प्रकृतिपुरुषात्मकं, अपरैर्द्रव्यादिषट्भेदं, तदपरैश्चतुरार्यसत्यात्मकं, इतरैर्विज्ञानमयमन्यैस्तु शून्यमेवेत्यनेकधा भिन्नाः पन्थानः, तथात्मापि नित्यानित्यादिभेदतोऽनेकधोच्यते, तत् को ह्येतद्वेद ? किं वाऽनेन ज्ञातेन ? अपवर्गं प्रत्यनुपयोगित्वात् ज्ञानस्य, केवलं कष्टं तप एवानुष्ठेयं, न हि कष्टं विनेष्टसिद्धिः तत्राऽज्ञानवादिनां विचाराऽसहत्वं, विज्ञानरहितस्य महतोऽपि कष्टस्य तिर्यग्नारकादीनामिवापवर्गस्य प्रत्ययहेतुत्वात् , तदन्तरेण व्रततपोऽपवर्गादीनामपि स्वरूपाऽज्ञानात् क्वचित् प्रवृत्त्यसम्भवादिति, एतेषां च क्रियावादिनामुत्तरोत्तरभेदतोऽनेकविधत्वं, तत्र शतमशीतिः क्रियावादिनः, अक्रियावादिनश्चतुरशीतिः, अज्ञानिकाः सप्तषष्टिविधाः, वैनयिकवादिनो द्वात्रिंशत् , एवं त्रिषष्ट्यधिकशतत्रयं । सर्वेऽप्यमी कुत्सितं प्रभाषन्त इति ।।२३।। न चैतत्स्वाभिप्रायेणोच्यते, किन्तु इइ पाउकरे बुद्धे, नायए परिनिव्वुए । विज्जाचरणसंपन्ने, सच्चे सच्चपरक्कमे ॥२४॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy