________________
२५६
श्रीउत्तराध्ययनदीपिकाटीका-१ सञ्जयमुनिराह
संजओ नाम नामेणं, तहा गुत्तेण गोयमो ।
गद्दभाली ममायरिया, विज्जाचरणपारगा ॥२२॥ व्याख्या-सञ्जयो नामा नाम्ना, तथा गोत्रेण गौतमोऽहं, गर्दभालयो ममाचार्याः, विद्या श्रुतज्ञानं, चरणं चारित्रं, तयोः पारगाः सर्वश्रुतसर्वक्रियावन्त इत्यर्थः, तैश्चाचार्यैरहं जीवघातान्निवर्तितः, तन्निवृत्तौ च मुक्तिफलमुक्तं, तदर्थं चाहं माहनोऽस्मि, तथा तदुपदेशं गुरूंश्च प्रतिचरामि, तदुपदेशाच्च विनीतो जातोऽस्मि ॥२२॥
अथ तद्गुणाकृष्टचेता अपृष्टोऽपि क्षत्रियमुनिराह
किरियं अकिरियं विणयं, अन्नाणं च महामुणी ।
एतेहिं चउहिं ठाणेहिं, मेयन्ने किं पभासई ॥२३॥ व्याख्या-क्रियाऽस्तीत्येवंरूपा, प्राकृतत्वान्नपुंस्त्वं सर्वत्र, अक्रिया तद्विपरीता, विनयो नमस्कारादिः, अज्ञानं तत्त्वाऽनवगमः, चः समुच्चये, हे महामुने ! एतैः क्रियादिभिश्चतुर्भिः स्थानैमिथ्यास्थानैमिथ्याध्यवसायाधारैः, 'मेयन्ने' मेयं जीवादिवस्तु, तज्जानन्तीति मेयज्ञाः, एतैर्वस्तुतत्त्वपरिच्छेदिन इत्यर्थः, कुतीर्थ्याः किमिति कुत्सितं प्रभाषन्ते, विचाराऽक्षमत्वादेकान्तवादस्य । तथाहि-ये क्रियावादिनस्तेऽस्तिक्रियाविशिष्टमात्मानं मन्यमाना अपि विभुरविभुः, कर्ताऽकर्ता, मूर्तोऽमूर्त इत्येवमाद्याग्रहोपहतप्रीतयस्तेऽस्ति माता पितास्ति न कुशलाऽकुशलकर्मवैफल्यं, [न] सन्ति गतयः, इत्येवं प्रतिज्ञाश्च । इह च विभुत्वं तदात्मनो न घटते, देह इव तल्लिङ्गभूतचैतन्योपलब्धेः, न च वक्तव्यमात्मनोऽव्यापित्वे "सुखदुःखबुद्धीच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारा नवात्मगुणा" [ ] इति वचनात् , गुणयोर्धर्माधर्मयोरप्यव्यापित्वं, न च वाच्यं द्वीपान्तरागतदेवदत्ताऽदृष्टाकृष्टमणिमुक्तादीनामिहागमनं स्यादिति । विभिन्नदेशस्याप्यस्कान्तादेरयःप्रभृतिवस्त्वाकर्षणशक्तिदर्शनात् , धर्माधर्मयोरपि शरीरमात्रव्यापित्वे तद्वत् विप्रकृष्टवस्त्वाकर्षत्वादिति न विभुरात्मा युज्यते । तथा विभुरप्यङ्गुष्ठपर्वाद्यधिष्ठानो यैरिष्यते तेषां सर्वदेहस्यापि चैतन्याऽसत्त्वं, तदसत्वाच्च शेषाङ्गावयवेषु शस्त्रादिभेदादौ वेदनाननुभवो, न चैतद् दृष्टमिष्टं वा, एवं सदा कर्तृत्वादिकमपि यथा न युज्यते तथा स्वधिया वाच्यम् ।
ये त्वक्रियावादिनस्तेऽस्तीतिक्रियाविशिष्टमात्मानं नेच्छन्त्येव, अस्तित्वे वा शरीरेण सहैकत्वाऽन्यत्वाभ्यामवक्तव्यमिच्छन्ति, एकत्वे ह्यविनष्टशरीरावस्थितौ न कदाचिन्मरणप्रसक्तिरात्मनः शरीरानन्यत्वेनावस्थित्वात् , तथा मुक्त्यभावादनेकदोषापत्तिश्च । शरीरान्यत्वे तु शरीरच्छेदादौ तस्य वेदनाऽभावप्रसङ्गः, तस्मादवक्तव्य एवेति, अक्रियावादित्वं चैषां
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org