Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan
View full book text
________________
२३६
श्रीउत्तराध्ययनदीपिकाटीका-१ व्याख्या-यानि भिक्षुः श्रुत्वा शब्दतो, निशम्यावधार्यार्थतः, बहुलः प्रभूत उत्तरोत्तरस्थानाप्त्या संयमोऽस्येति, सूत्रत्वाद्वहुलसंयमः, संवर आश्रवनिरोधस्तद्बहुलो बहुलसंवरः, तत एव बहुला समाधिश्चित्तस्वास्थ्यं यस्य स बहुलसमाधिः, गुप्तो मनोवाक्कायैः, तत एव गुप्तानि विषयप्रवृत्तितो रक्षितानीन्द्रियाणि येन स गुप्तेन्द्रियः, तत एव गुप्तं नवगुप्तिसेवनात् ब्रह्मेति ब्रह्मचर्य चरितुं शीलमस्येति गुप्तब्रह्मचारी, सदा सर्वकालं अप्रमत्तो विहरेत् अप्रतिबद्धविहारितया चरेत् । एतेन संयमबहुलत्वादिदशब्रह्मसमाधिस्थानफलमुक्तं, गुप्तीविना संयमाऽभावात् ॥
कयरे खलु थेरेहिं भगवंतेहिं दस बंभचेरसमाहिठाणा पण्णत्ता ? जे भिक्खू सोच्चा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुत्तिदिए गुत्तबंभयारी सया अप्पमत्ते विहरेज्जा ? इमे खलु ते थेरेहिं भगवंतेहिं दसबंभचेरसमाहिठाणा पण्णत्ता, जे भिक्खू सोच्चा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुतिदिए गुत्तबंभयारी सया अप्पमत्ते विहरेज्जा ॥
व्याख्या-जम्बूः पृच्छति कतराणि खलु इमानि ? शेषं पूर्ववत् । सुधर्माहइमानि खलु इत्यादि यावत् सदाऽप्रमत्तो भिक्षुर्विहरेदिति पूर्ववत् ॥
तं जहा-विवित्ताई सयणासणाइं सेविज्जा से निग्गंथे, नो इत्थीपसुपंडगसंसत्ताई सयणासणाइं सेवित्ता हवइ से निग्गंथे । तं कहमिति चे आयरियाह ॥
व्याख्या-तद् यथेत्युपन्यासे, विविक्तानि स्त्रीपशुपण्डकाद्यनाकीर्णानि शयनासनानि स्थानानि च सेवते, शयनानि फलकसंस्तारकादीनि, आसनानि पीठपादपुञ्छनादीनि, यः स निर्ग्रन्थो भवति । इत्थमन्वयेनोक्त्वा निश्चयार्थममुमर्थं व्यतिरेकेणाह-स्त्रियश्च दिव्या मानुष्या वा, पशवश्चाजैडकादयः, पण्डकाश्च क्लीवानि स्त्रीपशुपण्डकास्तैः संसक्तानि आकीर्णानि स्त्रीपशुपण्डकसंसक्तानि सेवितोपभोक्ता भवति स निर्ग्रन्थो न भवेत् । अथ शिष्यस्तदनन्तरोक्तं कथं ? कुतो हेतोः ? इति चेत् पृच्छेत् तदाऽत्राचार्य आह ॥
___ निग्गंथस्स खलु इत्थिपसुपंडगसंसत्ताई सयणासणाई सेवमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जेज्जा, भेदं वा लभिज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं भविज्जा,
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350