Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 298
________________ अष्टादशं संयतीयाध्ययनम् २५५ व्याख्या-तेनापि मृतेन यत्कृतं कर्म शुभं वा यदि वेत्यथाऽशुभं, तेनैव कर्मणा, न तु दु:खरक्षितेन धनादिना, संयुक्तो गच्छति परं भवं । ततः शुभहेतुतप एव चरेदिति भावः ॥१७॥ इति सूत्रसप्तकार्थः ॥ ततः सोऊण तस्स सो धम्मं, अणगारस्स अंतिए । महया संवेगनिव्वेयं, समावण्णो नराहिवो ॥१८॥ व्याख्या-श्रुत्वा तस्याऽनगारस्यान्ते स राजा धर्म, सुब्ब्यत्ययान्महत्संवेगनिर्वेद मोक्षेच्छाभावोद्विग्नतारूपं समापन्नो नराधिपः ॥१८॥ संजओ चइउ रज्जं, निक्खंतो जिणसासणे । गद्दभालिस्स भगवओ, अणगारस्स अंतिए ॥१९॥ व्याख्या-सञ्जयो राजा त्यक्त्वा राज्यं निष्क्रान्तः प्रवजितो जिनशासने गईभालेर्भगवतोऽनगारस्यान्तिके ॥१९॥ स प्रव्रज्य गीतार्थो भूत्वा दशधा समाचारीज्ञो गुरावादेशादेकत्वं प्रपन्नोऽनियतं विहरन् कञ्चित् सन्निवेशमागात् , तत्र चिच्चा रटुं पव्वइओ, खत्तिओ परिभासई । जहा ते दीसइ रूवं, पसन्नं ते तहा मणो ॥२०॥ व्याख्या-त्यक्त्वा राष्ट्रं ग्रामादिसमुदायं, प्रव्रजितो निष्क्रान्तः कश्चित् क्षत्रियः क्षत्रियजातिरनिर्दिष्टनामा स्वश्च्युतो जातजातिस्मृति: परिभाषते तं सञ्जयमुनि प्रति । स हि क्षत्रियः पूर्वभवे वैमानिक आसीत्ततश्च्युतः क्षत्रियकुले जातः, तत्र च कुतश्चिन्निमित्तात् स्मृतपूर्वजन्मा, तत एवोत्पन्नवैराग्यः प्रव्रज्यां गृहीत्वा विहरंश्च सञ्जयमुनि दृष्ट्वा तत्परीक्षार्थमिदं जगौ । यथा दृश्यते तव रूपं प्रसन्नं विकाररहितं, तथा ते मनोऽपि प्रसन्नं सम्भवति, यतोऽन्तःकालुष्ये हि बहिरेवं प्रसन्नत्वाऽसम्भवात् ॥२०॥ किं नामे किं गुत्ते, कस्सट्ठा एव माहणे । कहं पडियरसी बुद्धे, कहं विणीए त्ति वुच्चसि ॥२१॥ व्याख्या-तथा ते किं नाम ? किं गोत्रं? कस्मै चार्थाय माहनः प्रव्रजित:? कथं केन प्रकारेण प्रतिचरसि सेवसे बुधानाचार्यादीन् ? कथं विनीतो दक्ष इत्युच्यसे ? ॥२१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350