Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan
View full book text
________________
२५४
श्रीउत्तराध्ययनदीपिकाटीका-१ व्याख्या-यदा सर्वं कोशान्तःपुरादि परित्यज्य गन्तव्यं भवान्तरमिति, अवशस्याऽस्वतन्त्रस्य ते, तदा अनित्ये जीवलोके किं राज्ये प्रसजसि ? ॥१२।। अनित्यत्वं दर्शयति
जीवियं चेव रूवं वा, विज्जुसंपायचंचलं ।
जत्थ तं मुज्झसी रायं, पच्चत्थं नावबुज्झसि ॥१३॥ व्याख्या-जीवितं चैव रूपं च, विद्युत्सम्पातो विद्युच्चलनं तद्वच्चञ्चलं विद्युत्सम्पातचञ्चलं, यत्र जीविते रूपे च त्वं मुझसे हे राजन् ! परं प्रेत्यार्थं परलोकार्थं नावबुद्ध्यसे, जानास्यपि न, किं पुनस्तत्करणम् ? ॥१३।।
दाराणि य सुया चेव, मित्ता य तह बंधवा ।
जीवंतमणुजीवंति, मयं नाणुव्वयंति य ॥१४॥ व्याख्या-दाराश्चैव सुताश्चैव मित्राणि च तथा बान्धवा जीवन्तमनुजीवन्ति, तदुपार्जितवित्ताधुपभोगेनोपजीवन्ति, मृतं नानुव्रजन्त्यपि, चस्य अप्यर्थत्वात् । अतः कथं ते सहायाः स्युः ? इत्यतः कृतघ्नेषु नास्था कार्येति भावः ॥१४॥
पुनस्तद्रागवारणायाह
नीहरंति मयं पुत्ता, पियरं परमदुक्खिया ।
पितरो वि तहा पुत्ते, बंधू रायं तवं चरे ॥१५॥ व्याख्या-निस्सारयन्ति मृतं पुत्राः पितरं परमदुःखिता अपि, पितरोऽपि तथा पुत्रान् , बन्धवश्च बन्धून् , ततो हे राजन् ! तपश्चरेरासेवस्व ! ॥१५॥
तओ तेणज्जिए दव्वे, दारे य परिरक्खिए ।
कीलंतण्णे नरा राया, हट्टतुट्ठमलंकिया ॥१६॥ व्याख्या-ततो निस्सारणानन्तरं तेनैव पित्रादिनाजिते द्रव्ये, दारेषु च परिरक्षितेषु, तेनैव द्रव्येण दारैश्च अन्ये नरा हृष्टतुष्टालङ्कृताः, हृष्टा बहिः पुलकादिना, तुष्टा अन्तःप्रीत्या, अलङ्कृता विभूषिताः सन्तो हे राजन् ! क्रीडन्ति । यत ईदृशी भवस्थितिस्ततो राजन्स्तपश्चरेरिति सम्बन्धः ॥१६॥
मृते युक्तिमाह
तेणावि जं कयं कम्मं, सुहं वा जइ वा दुहं । कम्मुणा तेण संजुत्तो, गच्छद् उ परं भवं ॥१७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350