SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २५४ श्रीउत्तराध्ययनदीपिकाटीका-१ व्याख्या-यदा सर्वं कोशान्तःपुरादि परित्यज्य गन्तव्यं भवान्तरमिति, अवशस्याऽस्वतन्त्रस्य ते, तदा अनित्ये जीवलोके किं राज्ये प्रसजसि ? ॥१२।। अनित्यत्वं दर्शयति जीवियं चेव रूवं वा, विज्जुसंपायचंचलं । जत्थ तं मुज्झसी रायं, पच्चत्थं नावबुज्झसि ॥१३॥ व्याख्या-जीवितं चैव रूपं च, विद्युत्सम्पातो विद्युच्चलनं तद्वच्चञ्चलं विद्युत्सम्पातचञ्चलं, यत्र जीविते रूपे च त्वं मुझसे हे राजन् ! परं प्रेत्यार्थं परलोकार्थं नावबुद्ध्यसे, जानास्यपि न, किं पुनस्तत्करणम् ? ॥१३।। दाराणि य सुया चेव, मित्ता य तह बंधवा । जीवंतमणुजीवंति, मयं नाणुव्वयंति य ॥१४॥ व्याख्या-दाराश्चैव सुताश्चैव मित्राणि च तथा बान्धवा जीवन्तमनुजीवन्ति, तदुपार्जितवित्ताधुपभोगेनोपजीवन्ति, मृतं नानुव्रजन्त्यपि, चस्य अप्यर्थत्वात् । अतः कथं ते सहायाः स्युः ? इत्यतः कृतघ्नेषु नास्था कार्येति भावः ॥१४॥ पुनस्तद्रागवारणायाह नीहरंति मयं पुत्ता, पियरं परमदुक्खिया । पितरो वि तहा पुत्ते, बंधू रायं तवं चरे ॥१५॥ व्याख्या-निस्सारयन्ति मृतं पुत्राः पितरं परमदुःखिता अपि, पितरोऽपि तथा पुत्रान् , बन्धवश्च बन्धून् , ततो हे राजन् ! तपश्चरेरासेवस्व ! ॥१५॥ तओ तेणज्जिए दव्वे, दारे य परिरक्खिए । कीलंतण्णे नरा राया, हट्टतुट्ठमलंकिया ॥१६॥ व्याख्या-ततो निस्सारणानन्तरं तेनैव पित्रादिनाजिते द्रव्ये, दारेषु च परिरक्षितेषु, तेनैव द्रव्येण दारैश्च अन्ये नरा हृष्टतुष्टालङ्कृताः, हृष्टा बहिः पुलकादिना, तुष्टा अन्तःप्रीत्या, अलङ्कृता विभूषिताः सन्तो हे राजन् ! क्रीडन्ति । यत ईदृशी भवस्थितिस्ततो राजन्स्तपश्चरेरिति सम्बन्धः ॥१६॥ मृते युक्तिमाह तेणावि जं कयं कम्मं, सुहं वा जइ वा दुहं । कम्मुणा तेण संजुत्तो, गच्छद् उ परं भवं ॥१७॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy