________________
अष्टादशं संयतीयाध्ययनम्
आसं विसज्जइत्ताणं, अणगारस्स सो निवो । विणण वंदए पाए, भगवं एत्थ मे खमे ॥ ८ ॥
व्याख्या - अश्वं विसृज्य विमुच्य अनगारस्य स नृपः सञ्जयो विनयेन वन्दते पादौ, वक्ति च यथा हे भगवन् ! अत्र मृगवधे मेऽपराधं क्षमस्व ! ॥८॥
अह मोणेण सो भगवं, अणगारे झाणमस्सिओ । रायाणं न पडिमंतेइ, तओ राया भयद्दुओ ॥९॥
व्याख्या - अथेत्यनन्तरं मौनेन स गर्छभालिनामा नगारो ध्यानं धर्मध्यानमाश्रितः स्थितो राजानं न प्रतिमन्त्रयति, न प्रतिवक्ति, यथाहं क्षमिष्ये न वेति । ततो राजा भयद्रुतो यथा न ज्ञायते किमेष क्रुद्धः कर्त्ता ! ||९||
उक्तवांश्च
संजओ अहमस्सीति, भयवं वाराहि मे ।
कुद्धे तेएण अणगारे, दहिज्ज नरकोडिओ ॥१०॥
व्याख्या - सञ्जयो राजाहमस्मि मा भून्नीचोऽयं कोऽपीत्यस्य कोप इत्येतत्कथनं । इति हेतोर्हे भगवन् ! व्याहर 'मे' मां जल्पय ! सुब्व्यत्ययान्मां, क्रुद्धस्तेजसा तपोमाहात्म्यतेजोलेश्यादिनाऽनगारो दहन्नरकोटीरतोऽत्यन्तं भीतोऽहम् ॥१०॥
इत्थं तेनोक्ते मुनिराह -
अभयं पत्थिवा तुब्भं, अभयदाया भवाहि य । अणिच्चे जीवलोगंमि, किं हिंसाए पसज्जसि ॥११॥
२५३
व्याख्या - हे पार्थिव ! अभयं तुभ्यं, अभयदाता च भव ! यथा भवतो मृत्युभयं तथान्येषामपि । अमुमेवार्थं व्यतिरेकेणाह - अनित्ये जीवलोके प्राणिगणे किं हिंसायां प्रसजसि ? जीवलोकस्याऽनित्यत्वे भवानप्यनित्यस्तत्किमल्पदिनकृते नरकहेतुरियं कर्त्तुं योग्या ? ॥११॥
अन्यच्च
जया सव्वं परिच्चज्ज, गंतव्व अवसस्स ते ।
अणिच्चे जीवलोगंमि, किं रज्जंमि पसज्जसि ॥ १२ ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org