________________
२५२
मिए छुहित्ता हयगए, कंपिलुज्जाणकेसरे । भए संते मिए तत्थ, वहेइ रसमुच्छिए ॥ ३ ॥
श्रीउत्तराध्ययनदीपिकाटीका - १
व्याख्या - मृगान् क्षिप्त्वा प्रेरयित्वा हयगतोऽश्वारूढः काम्पील्यस्य केसराख्ये उद्याने, भीतांस्त्रस्तान् 'सतः' श्रान्तान् मितान् परिमितांस्तत्र तेषु मृगेषु मध्ये 'वहेइ' विद्ध्यति हन्ति वा शरैः, रसस्तन्मांसास्वादस्तत्र मूर्छितो गृद्धः ||३||
अह केसरंमि उज्जाणे, अणगारे तवोधणे । सज्झायज्झाणसंजुत्ते, धम्मज्झाणं झियाय ॥४॥
व्याख्या - अथ केसरे उद्यानेऽनगारस्तपोधनः, स्वाध्यायोऽनुप्रेक्षणादिः, ध्यानं धर्मध्यानादिः, ताभ्यां संयुक्तो यथाकालं तदासेवनात्, अत एव धर्मध्यानमाज्ञाविचयादि स ध्यायति ||४||
अप्फोवमंडवंमी, झायती खवियासवे ।
तस्साए मिए पासं, वहेड़ से नराहिवे ॥५॥
व्याख्या-' - 'अप्फोव' इति वृक्षाद्याकीर्णः, स चासौ मण्डपश्च अप्फोवमण्डपो नागवल्ल्यादिसम्बन्धी, तस्मिन् ध्यायति धर्मध्यानं, पुनरभिधानमतिशयख्यापकं, क्षपिताश्रवः स मुनिः । तस्य साधोः पार्श्वमागतान् मृगान् वहइ हन्ति स नराधिपः ||५||
ततश्च
अह आसगए राया, खिप्पमागम्म सो तहिं ।
ह मिए उपासित्ता, अणगारं तत्थ पासइ ॥ ६ ॥
व्याख्या-अथ राजाऽश्वगतो हयारूढः क्षिप्रं तत्रागत्य ['सो' इति सञ्जयनामा] मृगान् हतान् दृष्ट्वा तत्राऽदूरदेशेऽनगारं साधुं पश्यति ||६||
पुनश्च -
अह राया तत्थ संभंतो, अणगारो मणाहओ । मए उ मंदपुण्णेण, रसगिद्धेण घंतुणा ॥७॥
व्याख्या-अथ राजा तत्र सम्भ्रान्तो भीतो, यथा अनगारो मनागिति स्तोकेनाहतो न मारितः, तदासन्नमृगहननादित्याशयः, मया तु मन्दपुण्येन रसगृद्धेन 'घंतुण' ति
घातकेन हननशीलेन ||७||
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org