________________
अष्टादशं संयतीयाध्ययनम् ॥ तत्पापस्थानवर्जनं सञ्जयनृप इव भोगत्यागतः कार्य, ततोऽष्टादशं सञ्जयाध्ययनमाहअत्र नियुक्ति:
कांपिल्लपुरवरंमि अ, नामेणं संजओ नरवरिंदो ।
सो सेणाए सहिओ, नासीरं निग्गओ कयाइ ॥१॥ [उ. नि./गा.३९५ ] नासीरं सैन्यात् पुरः
हयमारूढो राया, मिए छुहित्ताण केसरुज्जाणे ।
ते तत्थ उ उत्तत्थे, वहेइ रसमुच्छिओ संतो ॥२॥ [उ. नि./गा.३९६] मृगान् छुहित्ता क्षिप्त्वा प्रेर्य
कंपिल्ले नयरे राया, उइन्नबलवाहणे ।
नामेणं संजए नाम, मिगव्वमुवनिग्गए ॥१॥ व्याख्या-काम्पील्ये नगरे राजा, उदीर्णमुदयप्राप्तं बलं चतुरङ्ग, वाहनं च गिल्लिथिल्यादिरूपं यस्य सः, यद्वा बलं शरीरसामर्थ्य, वाहनं गजाश्वादि, नाम्ना सञ्जयः, नामेति प्राकाश्ये, मृगव्यां आखेटकमुपनिर्गतो निर्यातः पुरात् ॥१॥ कथमित्याह
हयाणीए गयाणीए, रहाणीए तहेव य ।
पायत्ताणीए महया, सव्वओ परिवारिए ॥२॥ व्याख्या-हयानीकेन, गजानीकेन, स्थानीकेन, तथैव पदातीनां समूह: पादान्तं, तस्यानीकं पादातानीकं तेन, सुब्ब्यत्ययोऽत्र पूर्वेष्वपि, महता सर्वतः परिवारितः ॥२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org