________________
२५०
श्रीउत्तराध्ययनदीपिकाटीका-१ व्याख्या-एतादृश उक्तस्वरूपः, पार्श्वस्थाद्या ये पञ्च कुशीला ज्ञानाचारादिविराधकास्तद्वदसंवृतोऽनिरुद्धाश्रवः स पञ्चकुशीलाऽसंवृतः, रजोहरणादिवेषं धारयतीति रूपधरः, प्राकृतत्वाद्विन्दुः, मुनिप्रवराणां हिट्ठिमोऽधस्ताद्वर्ती, वेषाग्रहाज्जघन्यसंयमस्थानवर्तितया, अस्मिन् लोके विषमिव गर्हितो भ्रष्टप्रतिज्ञो जनैनिन्द्यते धिगेवमिति, अत एव न स इहेति इह लोके, नापि परत्र लोके, कोऽर्थः ? तस्य यतिश्राद्धत्वयोरप्रवेशात् ॥२०॥ जे वज्जए एए सया उ दोसं, स सुव्वए होइ मुणीण मज्झे । अयंसि लोए अमयं व पूइए, आराहए लोगमिणं तहा परं ॥२१॥ त्ति बेमि
व्याख्या-यो वर्जयत्येतान् सदैव दोषान् स्वेच्छासुखविहारादिपापाचारान् स सुव्रतो भवति मुनीनां मध्ये भावमुनित्वेनासौ गण्यते, अस्मिन् लोकेऽमृतमिव पूजित आराधयति, शुभगुणसुगत्याप्त्या द्विविधमिहपरलोकभेदेन लोकमिमं प्रत्यक्षं, [तथा परं परलोकमिति ।] इति समाप्तौ। ब्रवीमीति प्राग्वत् ॥२१॥
इति पापस्थानवर्जनाय सप्तदशं पापश्रमणीयाध्ययनमुक्तम् ॥१७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org