________________
सप्तदशं पापश्रमणीयाध्ययनम्
२४९ अभीक्ष्णं दिने दिने इति । यदि चासौ केनचिद् गीतार्थसाधुना चोद्यते, यथायुष्मन् ! किमेवं त्वयाऽाहारयतैव स्थीयते ? दुर्लभेयं नृत्वादिचतुरङ्गी, तपस्येवोद्यतुमर्हः, एवं नोदितः स प्रतिनोदयति, यथा ज्ञस्त्वमुपदेशदाने, न तु स्वयं क्रियायां, यत्त्वं विकृष्टं तपो न करोषीति ॥१६॥
आयरियपरिच्चाइ परपासंडसेवए । गाणंगणिए दुब्भुए, पावसमणे त्ति वुच्चइ ॥१७॥
व्याख्या-आचार्यपरित्यागी, आहारलोभेन, यथा आचार्या ग्लानादिभ्योऽन्नादि दापयन्ति, मां च तप: कारयन्तीत्यादि दुधिया । परपाखण्डान् "मृद्वी शय्या प्रातः" [ ] इत्यादिवादिनो बौद्धादीनत्यन्ताहारान् सेवते इति परपाखण्डसेवकः, गणाद् गणं षण्मासाभ्यन्तरे सङ्क्रामतीति गाणङ्गणिकः । अत एव दुर्भूतो दुराचारतया निन्द्यो जातः, स पापश्रमण उच्यते ॥१७॥
अथ वीर्याचारविषयमाह
सयं गेहं परिवज्ज, परगेहंसि वावडे । निमित्तेण य ववहरइ, पावसमणे त्ति वुच्चइ ॥१८॥
व्याख्या-स्वकं गृहं परित्यज्य प्रव्रज्याङ्गीकारात् , परगेहे व्याप्रियते, पिण्डार्थी सन् तत्कृत्यानि कुर्यात् । निमित्तेन शुभाशुभकथनेन व्यवहरति, द्रव्यार्जनं कुरुते, गृहिनिमित्तेन वा क्रयविक्रयव्यवहारं करोति, स पापश्रमणः ॥१८॥
तथा
सन्नाइपिंडं जेमेइ, नेच्छड् सामुदाणियं । गिहिनिसिज्जं च वाहेइ, पावसमणे त्ति वुच्चइ ॥१९॥
व्याख्या-स्वज्ञातिभिर्निजबन्धुभिः स्नेहाद्दत्तं [स्वज्ञातिपिण्डं] जेमति भुङ्क्ते, नेच्छति सामुदानिकं भैक्ष्यं गृहसत्कमज्ञातोञ्छं, गृहिनिषद्यां पर्यङ्कादिकां वाहयत्यारोहति, स पापश्रमणः ॥१९॥
अध्ययनार्थमुपसंहरन्नुक्तरूपदोषसेवात्यागयोः फलमाहएयारिसे पंचकुसीलसंवुडे, रूवंधरे मुणिपवराण हिट्ठिमे । अयंसि लोए विसमेव गरहिए, ण से इहं णेव परत्थ लोए ॥२०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org