________________
२४८
श्रीउत्तराध्ययनदीपिकाटीका-१ ___ व्याख्या-विवादं वाक्कलहं, चः पूत्र्ती, उदीरयति, कथञ्चिदुपशान्तमपि मर्मभाषादिना वृद्धि नयति, अधर्मोऽसदाचारः, आत्मनि प्रश्न आत्मप्रश्नस्तं हन्तीत्यात्मप्रश्नहा, चेत् कश्चित् पृच्छेत् किं भवान्तरयायी अयमात्मा ? इति तमेव प्रश्नं हन्ति, यथा नास्त्यात्मा, प्रत्यक्षादिप्रमाणैरनुपलभ्यत्वात् । यद्वा आप्तां सद्बोधेन हितां प्रज्ञां आत्मनोऽन्येषां वा बुद्धि, कुतर्कव्याकुलीकरणतो हन्ति यः स आप्तप्रज्ञहा, व्युद्ग्रहे दण्डादिघातजे, कलहे वाचिके रक्तः स पापश्रमण उच्यते ॥१२।।
अथिरासणे कुक्कुइए, जत्थ तत्थ निसीयइ ।
आसणंमि अणाउत्ते, पावसमणे त्ति वुच्चइ ॥१३॥ व्याख्या-अस्थिरासनः, कुत्कुचः, हास्यविकथाचापल्यवान् , यत्र तत्र संसक्तरजस्कादावपि नीषीदति, आसने अनायुक्तोऽनुपयुक्तः, स पापश्रमणः ॥१३।।
ससरक्खपाओ सुयई, सिज्जं न पडिलेहइ ।
संथारए अणाउत्ते, पावसमणे त्ति वुच्चइ ॥१४॥ व्याख्या-सरजस्कपादः स्वपिति, कोऽर्थः ? संयमविराधनाया अभीरुः पादावप्रमृज्यैव शेते, कारणाद्दिवा रात्रौ वा, शय्यां वसतिं न प्रतिलेखयति, न च प्रमार्जयति, संस्तारके सुप्तोऽनायुक्तः, "कुक्कुडिपायपसारे, जह आगासे पुणो वि आउंटे" [ ] इत्याद्यागमार्थाऽनुपयुक्तो भवति स पापश्रमणः ॥१४।। एवं चारित्रविषयं पापश्रमणत्वमुक्त्वा तपोविषयमाह
दुद्धदही विगईओ, आहारेइ अभिक्खणं ।
अरए य तवोकम्मे, पावसमणे त्ति वुच्चइ ॥१५॥ व्याख्या-दधिदुग्धे विकृतीघृताद्यशेषविकृतीराहारयति अभीक्ष्णं वारंवारं, तथाविधपुष्टालम्बनं विनापि । अत एवारतोऽप्रीतिमांश्च तपःकर्मण्यनशनादौ स पापश्रमणः ।।१५।।
तथा
अत्यंतंमि य सूरंमि, आहारेइ अभिक्खणं ।
चोइओ पडिचोएइ पावसमणे त्ति वुच्चइ ॥१६॥ व्याख्या-अस्तमयति यावत् , चः पूर्ती, सूर्ये उदयादारभ्य प्रातरारभ्य सन्ध्यां यावदभीक्ष्णं [आहारयति] भुङ्क्ते, यद्वाऽस्तमयति सूर्ये भुङ्क्ते । किमेकदैव ? इत्याह
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org