Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
यशोविजयोपाध्यायविरचिता
[ ऋषभ -
उत्सवैरुदिता वा या भा-कान्तिः तया 'कान्ताः' मनोहराः । पुनः किं० १ स्मरस्य - कन्दर्पस्य निर्जयेन - विजयेन प्रसृमरा - प्रसरणशीला प्रौढप्रतापस्य प्रथा - ख्यातिः येषां ते । पुनः किं० ? ' तरसा' वेगेन महसा - तेजसा दिवं खण्डितं भयं यैस्ते । पुनः किं० ? 'अकान्ताः नास्ति कान्ता येषां ते, अकस्य - दुःखस्य अन्तो येभ्यस्ते इति वा ॥२॥ जैनेन्द्रं स्मरतातिविस्तरनयं निर्माय मिथ्यादृशां,
सङ्गत्यागमऽभङ्गमानसहितं हृद्यप्रभावि श्रुतम् । मिथ्यात्वं हरदूर्जितं शुचिकथं पूर्ण पदानां मिथः, सङ्गत्या गमभङ्गमानसहितं हृद्यप्रभाः ! विश्रुतम् ॥ ३ ॥ जैनेन्द्रमिति ॥ भोः 'हृयप्रभाः !' हृद्या - मनोज्ञा प्रभाकान्तिः येषां ते यूयं 'जैनेन्द्र' पारमर्षं 'श्रुतं' सिद्धान्तमाचाराङ्गादिकं 'हृदि' हृदये 'स्मरत' स्मृतिविषयं कुरुत । किं कृत्वा ? 'मिथ्यादृशां'मिथ्यादृष्टीनां ‘सङ्गत्यागं' सम्बन्धपरित्यागं 'निर्माय' विधाय मिथ्यादृष्टिसङ्गो हि क्षयोपशमभावं लब्धमपि निहत्य औदयिकभावसाम्राज्यमेव सम्पादयति, अत एव तत्संस्तवः सम्यत्वातिचार उक्तः परमर्षिभिरिति तत्परित्यागेनैव श्रुतस्मरणं श्रेयस्करमित्यूह्यम् । श्रुतं किं० ? अतिविस्तराः - बहुप्रपञ्चा : - नैगम संग्रह व्यवहारर्जुसूत्रशब्दसमभिरूढैवम्भूतलक्षणा यत्र तत् । पुनः किं० ? अभङ्गम् - अश्रद्धारहितं मानसं येषां तेषां हितंप्रियावहम् । पुनः किं० ? 'ऊर्जितं ' स्फूर्जितं मिध्यात्वं हरत् । पुनः किम्भूतम् ? शुचयः - पवित्राः कथाश्च - धर्मकथितानि यत्र तत् । पुनः किं० १ पदानां मिथः ' परस्परं 'सङ्गत्या' प्रसङ्गादिलक्षणया
नया:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115