Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
- यशोविजयोपाध्यायविरचिता [सुमतिजिन.... दमदमिति ॥ हे 'अस्मर !' कन्दर्परहित ! त्वं 'सदा' नित्यं 'समयं सिद्धान्तं 'स्मर' स्मृतिवि[षयं कुरु, अनेन कामादिवि]पुतचित्तस्यानधिकारित्वं सूचितम् । कीदृशम् ? दमम्-इन्द्रियजयं ददाति यस्तम्। पुनः किं ? 'असुगम' दुष्प्रत्यूहम् , उपरतदुर्नष्टं तु पुष्टिं (?) । * पुनः किं० ? 'सुगम' * सुष्टु–शोभना गमाः-सदृश. पाठाः यत्र तम्। पुनः किं० ? सताम्-उत्तमानाम् आनन्दनं-हर्षकारि । पुनः किं ? 'परं' प्रकृष्टम् ।* पुनः किं० ? 'अपरम्' नास्ति परम्-उत्कृष्टं यस्मात् तम्।त्वं किम्भूतः ? * 'दयाविद्याविद्' दयाप्रतिपादकं शास्त्रं वेत्ति-जानाति यः, अहिंसाविधिज्ञानस्यैव समयज्ञानोत्कर्षदर्शनाद् अत्यावश्यक]मिदं विशेषणम्। पुनः किम्भूतस्त्वम् ? 'महामहाः' महातेजाः । पुनः किं० ? धीरा-दृढसम्यक्त्वोपबृंहित
वेनाऽक्षोभ्या धी:-बुद्धिर्यस्य सः । * पुनः किं० ? 'रसमयं' प्रकृष्टरसम्। * धीराणां धनस्तेषु स्थिरस्तेन तेऽपि समयस्यैकाविशेषणम् (धीराणां धीरस:-बुद्धिरसो येन तमिति समयस्यैव वा विशेषणम् ।) अस्मिन् पक्षे 'अयम्' इति विशेषणस्य कार्ये कारणोपचाराद् इष्टभाग्यजनकमित्यर्थः ॥३॥
काली कालीरऽसरस
भावाभावाय नयनसुखदाऽसुखदा । महिमहितनुता तनुतादितादितामानमानरुच्या रुच्या ॥४॥ ॥ इति श्रीसुमतिजिनस्तुतिः ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115