Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
स्तुतिः ।] :
ऐन्द्रस्तुतिचतुर्विंशतिका ।
४९
नवाभिष्वङ्गलक्षणः ताभ्यां तता विस्तीर्णा या आपद् - विपत्तिः तयाऽरोचिता - अरुचिविषयीकृता * ताम् * ॥ २ ॥
सुरसमानसदक्षरहस्य ! ते,
मधुरिमाऽऽगम ! सोsस्तु शिवाय नः ।
३ ॥
जगति येन सुधाऽपि घनप्रभासुरसमान सदक्षर ! हस्यते ॥ सुरेति ॥ हे ' सुरसमानसदक्ष रहस्य !' सुष्ठु - शोभनो रसो यत्र तादृशं मानसं चित्तं येषां ते च ते दक्षा:- निपुणाश्च तेषां रहस्य ! – उपनिषद्भूत !, हे 'घनप्रभासुरसमानसदक्षर !' घनानिनिविडान प्रभासुराणि - देदीप्यमानानि समानानि - मानसहितानि सन्ति - उत्तमानि अक्षराणि यस्य स तथा तस्यामन्त्रणम्, हे आगम ! 'ते' तव सः 'मधुरिमा' आस्वादसंवेद्य माधुर्यगुणः * 'नः ' अस्माकं* 'शिवाय' मोक्षायाऽस्तु । स कः ? येन 'जगति' विश्वे 'सुधाsपि' अमृतमपि 'हस्यते' विडम्ब्यते ॥ ३ ॥ सदसि रक्षति भासुरवाजिनं, जगदिता फलकेषुधनुर्धरा । जयति येयमिह प्रणताऽच्युता,
सदसिर क्षतिभा सुरवा जिनम् ॥ ४ ॥ ॥ इति श्री अनन्तजिनस्तुतिः ॥ १४ ॥
सदसीति ॥ इयमच्युता 'इह' जगति 'सदसि' पर्षदि जयति । किम्भूता ? ' प्रणता ' कृतप्रणामा, कम् ? ' जिनम्' भगवन्तम्,
१ निपुणाश्च गणधरादयो बोद्धव्याः । ऐ. च. ४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115