Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 97
________________ यशोविजयोपाध्यायविरचिता [ श्रीमहावीर क्षप्रमाणोपनिपातादविशरारूणि अवार्याणि - प्रतिकूलतर्काबाध्यानि मानानि - प्रमाणानि यस्मिन् तत् तथा । पुनः किं० ? मया - लक्ष्म्या ज्ञानेन वा राजितं - शोभितम् । अर्हतः किम्भूतस्य ? " भासमानस्य शोभमानस्य । पुनः किं० ? 'शोभावतः ' लक्ष्मीवत: । पुनः किं० ? भया - कान्त्याऽसमानस्य - निरुपमानस्य ॥ ३ ॥ ८२ अहमहमिकया समाराहुमुत्कण्ठितायाः क्षणे वाङ्मयस्वामिनी शक्तिमह्नाय दद्यात्तरां, सकलकलशता रमाराजिता पापहाने कलाभा स्थिताऽसद्विपक्षेऽमरालेरै वार्या गमम् । दधतमिह सतां दिशन्ती सदैङ्कारविस्फारसारस्वतध्यानदृष्टा स्वयं मङ्गलं तन्वती, सकलकलशतारमाराजितापापहाऽने कलाभास्थिता सद्विपक्षे मराले वार्यागमम् ॥ ४॥ ॥ इति श्रीमहावीरजिनस्तुतिः ॥ २४ ॥ अहमहमिकयेति ॥ 'वाङ्मयस्वामिनी' प्रवचनाधिष्ठायिका भगवती 'इह' जगति 'सताम्' उत्तमानाम् 'अह्राय' झटिति 'पापहाने' दुरितत्यागे 'शक्ति' सामर्थ्यं 'दद्यात्तराम्' अतिशयेन दद्यात् । किम्भूता ? ' अहमहमिकया' अहं पूर्वमाराधयामीत्युत्कलिकया 'समाराद्धुं' संसेवितुम् ‘उत्कण्ठितायाः' कृतोत्कण्ठायाः 'अमराले ः ' १ अवचूर्याम् - "रहस्यागमम्” इति पाठानुसारेण व्याख्या - "अहस्याहसितुमयोग्या ।" अन्यत्र " रहस्यागमं - रहस्यभूत आगमो रहस्यागमः - ( द्वादशाङ्गगणिपीटकम् ) तम् " ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115