Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
परमात्मपञ्चविंशतिका ।
अतळ्यावृत्तितो भीतं, सिद्धान्ताः कथयन्ति तम् । वस्तुतस्तु न निर्वाच्यं, तस्य रूपं कथञ्चन ॥ १९ ॥ जानन्नपि यथा म्लेच्छो, न शक्नोति पुरि(री)गुणान् । प्रवक्तुमुपमाभावात् , तथा सिद्धसुखं जिनः ॥ २० ॥ सुरासुराणां सर्वेषां, यत् सुखं पिण्डितं भवेत् । एकत्रापि हि सिद्धस्य, तदनन्ततमांशगम् ॥ २१ ॥ अदेहा दर्शनज्ञानो-पयोगमयमूर्तयः । आकालं परमात्मानः, सिद्धाः सन्ति निरामयाः ॥२२॥ लोकाप्रशिखरारूढाः, स्वभावसमवस्थिताः । भवप्रपञ्चनिर्मुक्ताः, युक्तानन्तावगाहनाः ॥ २३ ॥ इलिका भ्रमरीध्यानात् , भ्रमरीत्वं यथानुते । तथा ध्यायन् परात्मानं, परमात्मत्वमाप्नुयात् ॥ २४ ॥ परमात्मगुणानेवं, ये ध्यायन्ति समाहिताः। लभन्ते निभृतानन्दा-स्ते यशोविजयश्रियम् ॥ २५ ॥
॥ समाप्तेयं परमात्मपञ्चविंशतिका ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115