Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
॥ अहम् ॥ न्यायाचार्यश्रीयशोविजयोपाध्यायविरचितं विजयप्रभसूरेः खाध्यायम् ।
श्रीविजयदेवसूरीशपट्टाम्बरे, __ जयति विजयप्रभसूरिरर्कः । येन वैशिष्ट्यसिद्धिप्रसङ्गादिना,
निजगृहे योगसमवायतर्कः ॥ श्रीवि० १॥ ज्ञानमेकं भवद् विश्वकृत् केवलं,
दृष्टबाधा तु कर्तरि समाना। इति जगत्कर्तृलोकोत्तरे सङ्गते,
सङ्गता यस्य धीः सावधाना ॥ श्रीवि० २ ॥ ये किलापोहशक्तिं सुगतसूनवो,
जातिशक्तिं च मीमांसका ये । संगिरन्ते गिरं ते यदीयां नय
द्वैतपूतां प्रसह्य श्रयन्ते ॥ श्रीवि० ३॥ कारणं प्रकृतिरङ्गीकृता कापिलैः
क्वापि नैवाऽऽत्मनः काऽपि शक्तिः ।
१ निपूर्वकस्य गृहातेधातोः परोक्षारूपम् । २ "भवतु वि-" प्रत्यन्तरे। ३ "कर्तृवादोत्तरे" प्रत्यन्तरे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115