Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
॥ अहम् ॥ यशोविजयोपाध्यायविरचितं शत्रुञ्जयमण्डनश्रीऋषभदेवस्तवनम् ।
आदिजिनं वन्दे गुणसदनं, सदनन्तामलबोधम् । बोधकतागुणविस्तृतकीति, कीर्तितपथमविरोधम् ॥ आदि०॥१॥ रोधरहितविस्फुरदुपयोगं, योगं दधतमभङ्गम् । भङ्गनयव्रजपेशलवाचं, वाचंयमसुखसङ्गम् ॥ आदि० ॥२॥ सङ्गतपदशुचिवचनतरङ्गं, रङ्गं जगति ददानम् । दानसुरद्रुममञ्जुलहृदयं, हृदयङ्गमगुणभानम् ॥ आदि० ॥३॥ भानन्दितसुरवरपुन्नागं, नागरमानसहंसम् । हंसगति पञ्चमगतिवासं, वासवविहिताशंसम् ॥ आदि०॥४॥ शंसन्तं नयवचनमनवमं, नवमङ्गलदातारम् । तारस्वरमघधनपवमानं, मानसुभटजेतारम् ॥आदि० ॥ ५ ॥
इत्थं स्तुतः प्रथमतीर्थपतिः प्रमोदा
च्छ्रीमद्यशोविजयवाचकपुङ्गवेन । श्रीपुण्डरीकगिरिराजविराजमानो,
मानोन्मुखानि वितनोतु सतां सुखानि ॥६॥ ॥ समाप्तमिदं श्रीऋषभदेवस्तवनम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 108 109 110 111 112 113 114 115