SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ परमात्मपञ्चविंशतिका । अतळ्यावृत्तितो भीतं, सिद्धान्ताः कथयन्ति तम् । वस्तुतस्तु न निर्वाच्यं, तस्य रूपं कथञ्चन ॥ १९ ॥ जानन्नपि यथा म्लेच्छो, न शक्नोति पुरि(री)गुणान् । प्रवक्तुमुपमाभावात् , तथा सिद्धसुखं जिनः ॥ २० ॥ सुरासुराणां सर्वेषां, यत् सुखं पिण्डितं भवेत् । एकत्रापि हि सिद्धस्य, तदनन्ततमांशगम् ॥ २१ ॥ अदेहा दर्शनज्ञानो-पयोगमयमूर्तयः । आकालं परमात्मानः, सिद्धाः सन्ति निरामयाः ॥२२॥ लोकाप्रशिखरारूढाः, स्वभावसमवस्थिताः । भवप्रपञ्चनिर्मुक्ताः, युक्तानन्तावगाहनाः ॥ २३ ॥ इलिका भ्रमरीध्यानात् , भ्रमरीत्वं यथानुते । तथा ध्यायन् परात्मानं, परमात्मत्वमाप्नुयात् ॥ २४ ॥ परमात्मगुणानेवं, ये ध्यायन्ति समाहिताः। लभन्ते निभृतानन्दा-स्ते यशोविजयश्रियम् ॥ २५ ॥ ॥ समाप्तेयं परमात्मपञ्चविंशतिका ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy