Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 96
________________ स्तुतिः। ऐन्द्रस्तुतिचतुर्विशतिका। परमतरण ! हेऽतुलाभङ्गुरावार्यमानं दिता पाय ! शोभावतो भासमानस्य माराजितम् ॥३॥ वचनमिति ॥ हे 'आनन्दित !' लब्धानन्द !, हे 'अद्रोह !' द्रोहरहित !, हे 'निर्मोह !' अज्ञानरहित !, हे 'निःशेषितापरमतरण !' निश्शेषितं-समापितम् अपरेषां-शाक्यादीनां दुर्नयात्मकत्वादपरम्-अनुत्कृष्टं वा मतमेव-दर्शनमेव रणं-संग्रामो येन स तथा तस्य सम्बोधनम् , हे 'दितापाय !' दितः-खण्डितोऽपाय:अन्तरायो येन तस्यामन्त्रणम् , हे भव्य ! त्वम् 'आर्य' ज्ञानदर्शनादि आर्यलोकं *वा* 'प्रीणयद्' आनन्दयद् 'अर्हतः' तीर्थकरस्य 'उचितम्' अबाधिततया राजमानं 'वचनं' सकलगणिपीटकस्वरूपं 'श्रेयसे' कल्याणार्थं 'भावतः' श्रद्धातः 'संश्रय' भजस्व । किं कुर्वत् ? 'भीमे' भीवणे 'गुरौ' महति 'भवाम्भोनिधौ' संसारसमुद्रे 'परमतरणहेतुलाभम्' अतिशयितपारगमननिबन्धनज्ञानदर्शनाद्यपायं 'दधत्' कुर्वत्। पुनः किम्भूतम् ? ध्वस्तः-अपनीतस्तापो येन तत्तथा । पुनः किं ? 'अपायशः' अप-गतम् अयशो यस्मात् तत् तथा । पुनः किं ? मारेण-कन्दर्पण अजितम्-अवशीकृतम् । पुनः किं० ? दलित:-अपनीतो जगतोऽसद्हः-अलीकाभिनिवेशो येन तत् तथा; निवर्तते हि मिथ्यात्वनिमित्तोऽसद्रहः श्रुतोपलम्भे प्राणिनाम् , तद्वीजमिथ्यात्वविलयात् । पुनः किं० ? हेतु:निश्चितान्यथानुपपत्त्येकलक्षणः दृष्टान्तश्च-निश्चितसाध्यधर्मिणि हेतुप्रदर्शनम् ताभ्यां निष्पिष्टः-अपनीतः सन्देहसन्दोहः-संशयसमूहो येन तत्तथा। पुनः किं० १ अतुलानि-निरुपमानि अभङ्गुराणि-विप ऐ. च. ६ Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115