Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
परमज्योतिष्पश्चविंशतिका। परेषां गुणदोषेषु, दृष्टिस्ते विषदायिनी। स्वगुणानुभवालोकाद् , दृष्टिः पीयूषवर्षिणी ॥ १९ ॥ स्वरूपादर्शनं श्लाघ्यं, पररूपेक्षणं वृथा । एतावदेव विज्ञानं, परं ज्योतिष्प्रकाशकम् ।। २० ॥ स्तोकमप्याऽऽत्मनो ज्योतिः, पश्यतो दीपवद्धितम् । अन्धस्य दीपशतवत् , परं ज्योतिर्न बह्वपि ॥ २१ ॥ समतामृतमन्नानां, समाधिधूतपाप्मनाम् । रत्नत्रयमयं शुद्धं, परं ज्योतिष्प्रकाशते ॥ २२ ॥ तीर्थङ्करा गणधरा, लब्धिसिद्धाश्च साधवः । संजातास्त्रिजगद्वन्द्याः, परं ज्योतिष्प्रकाशतः॥ २३ ॥ न रागं नापि च द्वेष, विषयेषु यदा व्रजेत् ।
औदासीन्यनिममात्मा, तदाऽऽप्नोति परं महः ॥ २४ ॥ विज्ञाय परमं ज्योति-माहात्म्यमिदमुत्तमम् । यः स्थैर्य याति लभते, स यशोविजयश्रियम् ॥ २५ ॥
॥ समातेयं परमज्योतिष्पञ्चविंशतिका ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115