SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ परमज्योतिष्पश्चविंशतिका। परेषां गुणदोषेषु, दृष्टिस्ते विषदायिनी। स्वगुणानुभवालोकाद् , दृष्टिः पीयूषवर्षिणी ॥ १९ ॥ स्वरूपादर्शनं श्लाघ्यं, पररूपेक्षणं वृथा । एतावदेव विज्ञानं, परं ज्योतिष्प्रकाशकम् ।। २० ॥ स्तोकमप्याऽऽत्मनो ज्योतिः, पश्यतो दीपवद्धितम् । अन्धस्य दीपशतवत् , परं ज्योतिर्न बह्वपि ॥ २१ ॥ समतामृतमन्नानां, समाधिधूतपाप्मनाम् । रत्नत्रयमयं शुद्धं, परं ज्योतिष्प्रकाशते ॥ २२ ॥ तीर्थङ्करा गणधरा, लब्धिसिद्धाश्च साधवः । संजातास्त्रिजगद्वन्द्याः, परं ज्योतिष्प्रकाशतः॥ २३ ॥ न रागं नापि च द्वेष, विषयेषु यदा व्रजेत् । औदासीन्यनिममात्मा, तदाऽऽप्नोति परं महः ॥ २४ ॥ विज्ञाय परमं ज्योति-माहात्म्यमिदमुत्तमम् । यः स्थैर्य याति लभते, स यशोविजयश्रियम् ॥ २५ ॥ ॥ समातेयं परमज्योतिष्पञ्चविंशतिका ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy