SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ॥ अर्हम् ॥ न्यायाचार्यमहोपाध्यायश्रीयशोविजयविरचिता परमात्मपञ्चविंशतिका । परमात्मा परंज्योतिः, परमेष्ठी निरञ्जनः । अजः सनातनः शम्भुः, स्वयम्भूर्जयताजिनः ॥ १॥ नित्यं विज्ञानमानन्द, ब्रह्म यत्र प्रतिष्ठितम् । शुद्धबुद्धस्वभावाय, नमस्तस्मै परात्मने ॥ २॥ अविद्याजनितैः सर्वैर्विकारैरनुपद्रुतः । व्यक्त्या शिवपदस्थोऽसौ, शक्त्या जयति सर्वगः ॥ ३ ॥ यतो वाचो निवर्तन्ते, न यत्र मनसो गतिः । शुद्धानुभवसंवेद्यं, तद्रूपं परमात्मनः ॥ ४ ॥ न स्पर्शो यस्य नो वर्णो, न गन्धो न रसधृती ? । शुद्धचिन्मात्रगुणवान् , परमात्मा स गीयते ।। ५ ॥ माधुर्यातिशयो यद्वा, गुणोघः परमात्मनः । तथाऽऽख्यातुं न शक्योऽपि, प्रत्याख्यातुं न शक्यते ॥६॥ बुद्धो जिनो हृषीकेशः शम्भुब्रह्माऽऽदिपूरुषः। इत्यादिनामभेदेऽपि, नार्थतः स विभिद्यते ॥ ७ ॥ धावन्तोऽपि नया नैके, तत्स्वरूपं स्पृशन्ति न । समुद्रा इव कल्लोलैः, कृतप्रतिनिवृत्तयः ॥ ८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy