Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 75
________________ ६० यशोविजयोपाध्यायविरचिता [ श्रीअरनाथ रणस्य - संग्रामस्य अधिकारो यस्मादीदृशम्, उदिता - उत्पन्नाऽऽ - पत् च यस्मात् तादृशम्, 'भीमभवं' भीषणसंसारं 'हरन्तं' हेतूच्छेदादपनयन्तम् ॥ २ ॥ भीमभवदधेर्भुवनमेव यतो विधुशुभ्रमञ्जसा sभवदवतो यशोऽभितरणेन न मादितं नयमितं हितम् । जिनपसमयमनन्तभङ्कं जन ! दर्शनशुद्धचेतसा, भवदवतोय ! शोभित! रणेन नमादितं न यमितं हितम् ॥ ३ भीमेति ॥ हे 'शोभित !' भासित !, केन ? ' दर्शनशुद्धचेतसा' सम्यक्त्वनिर्मलहृदयेन; हे 'भवदवतोय !' संसारदावानलजल !, हे 'जन' हे प्राणिन् ! 'हि' निश्चितं तं 'जिनपसमय' भगवत्सिद्धान्तम् * ' अञ्जसा एव' शीघ्रमेव * 'नम' नमस्कुरु । किम्भूतम् ? 'न' नैव 'मादितं' जातोन्मादम् । पुनः किं० ? 'नयं' नैगमादिकं शुद्धपथं वा 'इ' प्राप्तम् । पुनः किं० ? अनन्ताः - अपरिमिताः भङ्गाः–विकल्पविशेषा यत्र स तथा तम् । पुनः किं० ? 'रणेन' संग्रामेन 'नयमितं ' न बद्धम् । पुनः किं० ? ' अदितम्' अखण्डितम् । पुनः किं० 'हितं' पथ्यावहम् । तं कम् ? 'यतः ' यस्मात् 'भीमभवोदधेः ' भीषणसंसारसमुद्रस्य 'अभितरणेन' समन्तात् तरणेन 'विधुशुभ्रं' चन्द्रोज्ज्वलं यशः 'अभवत् ' अजनि । यतः किं कुर्वतः ? भुवनम् * ' अवतः * रक्षतः ॥ ३ ॥ चक्रधरा करालपरघातबलिष्ठमधिष्ठिता प्रभासुरविनतातनुभवपृष्ठमनुदितापदरं गतारवाक् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115