Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 83
________________ ६८ यशोविजयोपाध्यायविरचिता [श्रीनमिजिनविभया-कान्त्या वर्यः-मनोहरः । भासांचक्रं किम्भूतम् ? 'अघवने' दुरितकानने 'अनलसमानम्' अग्मितुल्यम् , यथाऽनिर्वनं विनाशयति तथेदमपि दुरितं विनाशयतीत्यर्थः । अदः किम् ? 'यतः' यस्मात् 'महाविभावर्यः' अमावास्याद्या अपि बहलतमिस्रप्रफुल्ला निशीथिन्यः क्षिप्रं' तूर्ण 'नाशं यान्ति' क्षयं प्राप्नुवन्ति । कस्मादिव ? 'रविकरसमूहादिव,' सूर्यकिरणचक्रादिव ॥ १॥ भवोद्भूतं भिन्द्याद् भुवि भवभृतां भव्यमहिता, जिनानामाऽऽयासं चरणमुदिताऽऽली करचितम् । शरण्यानां पुण्या त्रिभुवनहितानामुपचिता ऽऽजिनानामायासंचरणमुदितालीकरचितम् ॥२॥ भवोद्भूतमिति ॥ 'जिनानाम्' अर्हतां 'आली' श्रेणिः 'भुवि' पृथिव्यां भवभृतां प्राणिनां 'भवोद्भूतं' संसारसमुत्थम् 'आयासं' खेदं 'भिन्द्याद्' विलुम्प्यात् । आली किं० ? भव्यैः महितापूजिता, अभव्यानां देवाद्यतिशयदर्शनात् संसारसुखलि. प्सया तत्पूजनं तु परमार्थतोऽपूजनमेवेति भावः । पुनः किं ? चरणेन-चारित्रेण मुदिता-आनन्दिता, भवति हि सरागचारित्रेणाऽपि मासादिपर्यायवृद्धौ व्यन्तरादितेजोलेश्यातिकमाभिधानाद् विशिष्टसुखातिशय इति किमाश्चर्य वीतरागचारित्राद आनन्दातिशये ? इति युक्तमुक्तमदः । पुनः किं० ? 'पुण्या' पवित्रा। जिनानां किम्भूतानाम् ? 'शरण्यानां' शरणयोग्यानाम् । पुनः किं० ? 'त्रिभुवनहितानां जगत्रयहितकारिणाम् । आयासं किं० ? करेण-दण्डेन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115