Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
यशोविजयोपाध्यायविरचिता [ श्रीपार्श्वजिन
लोकालोकार्थवेत्तुर्नयविनयविधव्यासमानासमाना - भङ्गा भङ्गानुयोगा सुगमसुगमयुक् प्राकृतालङ्कृताऽलम् ॥३॥ गौरिति ॥ ' लोकालोकार्थवेत्तुः' जगदर्थज्ञातुर्भगवत: 'प्राकृतालङ्कृता' प्राकृतनिबन्धबन्धुरा 'गौः' वाणी 'अलम्' अत्यर्थं 'मे' मम 'मुदं' हर्ष देयात् । लोकालोकार्थवेत्तुः किंभूतस्य ? आगौरा - समन्तादुज्ज्वला अति- अतिशयिता कीर्तिर्यस्य स तथा तस्य । गौः किं० ? *परमाणां प्रकृष्टानां परमः - प्रकृष्टो वा परमतानांशाक्यादिदर्शनानां ह्रासः - अनिश्चितप्रामाण्यकत्वं *तस्माद् यो विश्वासः - विश्रम्भः * तेन विश्वस्य जगत आदेया- हितप्रवृत्यर्थमादरणीया । पुनः किं० १ जनितः कृतो जने:- संसारस्य तनूभावः - अल्पत्वं यैस्तादृशास्तारा :- उदारा अवताराः - उपन्यासप्रकारा यस्याः सा तथा । पुनः किं० ? नयाः नैगमादयो विनयविधाश्चवाक्यशुद्ध्या युक्ता भाषादीनां विनय शिक्षास्तेषां यो व्यासः - विस्तारो मानानि च - प्रत्यक्षादीनि तैरसमाना - निरुपमा । पुनः किं०? 'अभङ्गा' पराजयरहिता । पुनः किं० ? भङ्गानुयोगैः - भङ्गव्याख्यानैरसुगमाः - असुखावबोधा ये सुष्ठु - शोभना गमा:- सदृशपाठास्तान् युनक्तीति तद्युक् ॥ ३ ॥
लोके लोकेशनुत्या सुरससुरसभां रञ्जयन्ती जयन्ती, व्यूहं व्यूहं रिपूणां जनभजनभवगौरवा मारवामा । कान्ताऽकान्ताऽहिपस्येरितदुरितदुरन्ताहितानां हितानां, दद्यादद्यालिमुच्चैरुचितरुचितमा संस्तवे च स्तवे च ॥ ४ ॥ ॥ इति श्रीपार्श्वजिनस्तुतिः ॥ २३ ॥
७६
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115