Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 82
________________ सुविः । 1 ऐन्द्रस्तुतिचतुर्विंशतिका इवं गतं तमः - पाप यस्याः सकाशात् सा इततथा । पुनः किं० 'रिपुमदनाशिनी' शत्रुस्मयनाशकरी । पुनः किं० ? 'आमा' - गा । किं कुर्वती ? 'विलसितेन' विलासेन 'दिवि' बलकि 'मानवताम्' ऐश्वर्यादिगुणैरभिमानिनाम् महाशुभाः - अतिप्रशस्ता ये विनोदिनः *विनोद*क्रियारसिका विमानवन्तः - वैमानिकास्तेषां 'हृदि' हृदये 'मुदं' हर्ष 'ददती' यच्छन्ती ॥ ४ ॥ ॥ इति श्रीमुनिसुव्रत जिनस्तुतिविवरणम् ॥ २० ॥ यतो यान्ति क्षिप्रं नमिरघवने नात्र तनुते, विभावर्यो नाशं कमऽनलसमाऽऽनन्दितमदः । दधद् भासां चक्रं रविकर समूहादिव महा- विभावर्योsनाशङ्कमनलसमानं द्वितमदः ॥ १ ॥ यत इति । 'अद : ' एतद् 'भासांचक्रं' भामण्डलं 'दधत् ' वि भ्रत् नमिः 'अत्र' जगति कम् 'अनलसं' भगवदाज्ञाप्रतिपत्तौ परित्यक्तालस्यम् 'अनाशङ्कम्' " आशङ्का साध्वसं दर:" इत्यभिधानचिन्तामणि ( २ - २१५ ) वचनाद् भयरहितम् अत एव 'आनन्दितं ' प्रमुदितं न तनुते ? अपि तु सर्वमपि भयरहितमानन्दितं च तनुते, तथा च जगज्जीवातुजीवाभयहर्षदानप्रवणतया नमस्करणीयोऽयमिति व्यज्यते, 'अनाशङ्क' निःशङ्कमिति क्रियाविशेषणं आनन्दितमित्येव वा विधेयपदम् । नमिः किम्भूतः ? दितः - खण्डितो मदः -- नात्याद्यवलेपः येन सः । पुनः किं० १ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115