________________
सुविः । 1
ऐन्द्रस्तुतिचतुर्विंशतिका
इवं गतं तमः - पाप यस्याः सकाशात् सा इततथा । पुनः किं० 'रिपुमदनाशिनी' शत्रुस्मयनाशकरी । पुनः किं० ? 'आमा' - गा । किं कुर्वती ? 'विलसितेन' विलासेन 'दिवि' बलकि 'मानवताम्' ऐश्वर्यादिगुणैरभिमानिनाम् महाशुभाः - अतिप्रशस्ता ये विनोदिनः *विनोद*क्रियारसिका विमानवन्तः - वैमानिकास्तेषां 'हृदि' हृदये 'मुदं' हर्ष 'ददती' यच्छन्ती ॥ ४ ॥
॥ इति श्रीमुनिसुव्रत जिनस्तुतिविवरणम् ॥ २० ॥ यतो यान्ति क्षिप्रं नमिरघवने नात्र तनुते, विभावर्यो नाशं कमऽनलसमाऽऽनन्दितमदः । दधद् भासां चक्रं रविकर समूहादिव महा-
विभावर्योsनाशङ्कमनलसमानं द्वितमदः ॥ १ ॥ यत इति । 'अद : ' एतद् 'भासांचक्रं' भामण्डलं 'दधत् ' वि भ्रत् नमिः 'अत्र' जगति कम् 'अनलसं' भगवदाज्ञाप्रतिपत्तौ परित्यक्तालस्यम् 'अनाशङ्कम्'
" आशङ्का साध्वसं दर:"
इत्यभिधानचिन्तामणि ( २ - २१५ ) वचनाद् भयरहितम् अत एव 'आनन्दितं ' प्रमुदितं न तनुते ? अपि तु सर्वमपि भयरहितमानन्दितं च तनुते, तथा च जगज्जीवातुजीवाभयहर्षदानप्रवणतया नमस्करणीयोऽयमिति व्यज्यते, 'अनाशङ्क' निःशङ्कमिति क्रियाविशेषणं आनन्दितमित्येव वा विधेयपदम् । नमिः किम्भूतः ? दितः - खण्डितो मदः -- नात्याद्यवलेपः येन सः । पुनः किं० १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org